________________
उत्तराध्ययन ॥४०॥
१५
विंशतितम मध्ययनम्
(२०) गा३७-३८
इयं च रूढित उक्ता, एतदौपम्यं च तस्य खर्गापवर्गादिसमीहितावासिहेतुत्वात् । आत्मैव मे नन्दनं वनं, एतदौपम्यं चास्यैव चित्ताहादहेतुत्वात् ॥ ३६ ॥ मूलम्-अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य।अप्पा मित्तममित्तं च, दुप्पहिअ सुपट्रिओ॥३७॥ मूलम्___ व्याख्या-आत्मैव कर्ता दुःखानां सुखानां चेति योगः, विकरिता च विक्षेपक आत्मैव तेषां, अत एवात्मैव मित्रममित्रश्च, कीरशः सन् ? दुःप्रस्थितो दुराचारः, सुप्रस्थितः सदनुष्ठानः । दुःप्रस्थितो यात्मा समग्रदुःखहेतुरिति वैतरण्यादिरूपः, सुप्रस्थितश्च सकलसुखहेतुरिति कामधेन्वादिकल्पः । तथा च प्रव्रज्यायामेव सुप्रस्थितत्वात् खस्यान्येषां च यागक्षेमकरणक्षमत्वात् मम नाथत्वमिति सूत्रद्वयार्थः ॥ ३७॥ पुनरन्यथाऽनाथत्वमाह
मूलम्-इमा हु अन्नावि अणाहया निवा!, तमेगचित्तो निहुओ सुणाहि ।
निअंठधम्म लहिआण वी जहा, सीदंति एगे बह कायरा नरा ॥ ३८॥ व्याख्या-'इमत्ति' इयं, हुः पूत्तौं, अन्या अपरा, अपिः समुच्चये, अनाथता, यदभावादहं नाथो जात इति भावः। 'णिवत्ति' हेनृप ! तामनाथतामेकचित्तो निभृतो स्थिरः शृणु । का पुनरसौ ? इत्याह-निर्ग्रन्थधर्म साध्वाचारं लब्ध्वाऽपि, यथेत्युपदर्शने, सीदन्तितदनुष्ठानं प्रति शिथलीभवन्ति । एके केचन, बहु प्रकामं यथास्यात्तथा, कातरा निस्सत्वा नरा मनुष्याः । यद्वा बहुकातरा इपन्निःसत्वाः, सर्वथा निःसत्वानां हि निर्ग्रन्थमार्गाङ्गीकार एव मूलतोऽपि
॥४०९॥
हूँ