SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ३ मूलम् - आसा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे । भुंजामि माणुसे भोए, आणाइस्सरिअं च मे ॥१४ ॥ व्याख्या- 'आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्य समृद्धिः प्रभुत्वं वा ॥ १४ ॥ मूलम् — एरिसे संपयग्गंमि, सवकामसमप्पिए । कहं अणाहो भवइ, मा भंते मुखं वए ! ॥ १५॥ व्याख्या -- ईशे सम्पदग्रे सम्पत्प्रकर्षे 'सवकामसमप्पिएत्ति' आर्षत्वात्समर्पितसर्वकामे सम्पूरितसकला भीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः-न नाथो अनाथः, स चाकिंचन एवं स्यान्न पुनः सर्वाङ्गीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततो मा भदंत ! मृषावादीरिति सूत्रसप्तकार्थः ॥ १५ ॥ मुनिराहमूलम् —ण तुमं जाणे अणाहस्स, अत्थं पोत्थं च पत्थिवा ! । जहा अणाहो हवइ, सणाहो व नराहिवा ! १६ व्याख्या--न त्वं जानीषे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्थां वा प्रकर्षेणोत्थां उत्थानं मूलोत्पत्तिं, केनाशयेन मयाऽयमुक्त इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ॥ १६ ॥ मूलम् — सुणेहि मे महाराय !, अवक्खित्तेण चेअसा । जहा अणाहो भवति, जहा मे अपवत्तिअं ॥१७॥ व्याख्या - शृणु मे कथयत इवि शेषः, किं तदित्याह-यथा अनाथो अनाथशब्दवाच्यः पुरुषो भवति, यथा 'मे अत्ति' मया च प्रत्रर्त्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ 6 विंशतितम मध्ययनम्. गा १४-१७
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy