________________
उत्तराध्ययन ॥४० ॥
एकोनविंश मध्ययनम्.
गा७१-७४
*OSHOSHIRISHISHIRISHAHAR
मूलम्-निच्चं भीएण तत्थेणं, दुहिएणं वहिएण यापरमा दुहसंबद्धा, वेअणा वेइआ मए ॥ ७१ ॥ ___ व्याख्या-भीतेनोत्पन्नभयेन, त्रस्तेनोद्विग्नेन दुःखितेन जातविविधदुःखजातेन, व्यथितेन कम्पमानसर्वाङ्गेन ॥७१॥ मूलम्-तिवचंडप्पगाढाओ, घोराओ अइदुस्सहा । महाभयाओ भीमाओ, नरएसुं वेइआ मए ॥७२॥ __ व्याख्या-तीत्रा अनुभागतोऽत एव चण्डा उत्कटाः, प्रगाढा गुरुस्थितिकास्तत एव घोरा रौद्रा अतिदुस्सहाः, तत एव महाभयाः भीमाः श्रूयमाणा अपि भयप्रदाः, एकार्थिकानि वा एतानि, इह च वेदना इति प्रक्रमः ॥७२॥ कीदृशं पुनस्तासां तीनादिरूपत्वमित्याहमूलम्--जारिसा माणुसे लोए, ताया! दीसंति वेअणा । एत्तो अणंतगुणिआ,नरपसुं दुक्खवेअणा ७३ ___ व्याख्या-[सुगमा ] ॥७३॥ न च नरक एव दुःखवेदना मयाऽनुभूताः, किन्तु सर्वगतिष्वपि इत्येतदेवाहमूलम्--सबभवेसु असाया-वेअणा वेइआ मए। निमेसंतरमित्तंपि, जं साया नत्थि वेअणा ॥७॥
व्याख्या--सर्वभवेष्वसातवेदना वेदिता मया, निमेषस्यान्तरं व्यवधानं यावता कालेनासौ भूत्वा पुनर्भवति तन्मात्रमपि कालं, यत्साता सुखरूपा नास्ति वेदना, वैषयिकसुखस्यापीpधनेकदुःखानुविद्धत्वेन विपाककटुत्वेन चाऽसुखरूपत्वात् । सर्वस्य चास्य प्रकरणस्यायमाशयो येन मयैवं दुःखान्यनुभूतानि सोऽहं तत्त्वतः कथं सुखोचितः।
॥४०
॥