________________
AAAAAAAA
एकोनविंश मध्ययनमः गा७५-७७
सुकुमारो वा ? येन चेदृश्यो नरकादिव्यथाः सोढास्तस्य कथं दीक्षा दुष्करेत्यतोऽसौ मया ग्राद्ववेत्येकत्रिंशत्सूत्रार्थः ॥ ७४ ॥ तत्रेत्थमुक्त्वा स्थितेमूलम्-तं बिंतऽम्मापिअरो, छंदेणं पुत्त ! पवया। नवरं पुण सामण्णे, दुक्खं निप्पडिकम्मया ॥७५॥ __ व्याख्या-'छंदणंति' छन्दसाऽभिप्रायेण यथारुचीत्यर्थः, पुत्र ! प्रव्रज, नवरं केवलं, पुनर्विशेषणे, दुःखं दुःखहे. तुर्निःप्रतिकर्मता रोगाद्युत्पत्तौ प्रतिकाराकरणमिति सूत्रार्थः ॥ ७५ ॥ इत्थं पितृभ्यामुक्ते मृगापुत्रः स्माहमूलम् सो बिंतऽम्मापिअरो!, एवमेअं जहा फुडं । परिकम्मं को कुणइ, अरपणे मिअपक्खिणं? ॥७॥
व्याख्या-स ब्रूते हे अम्बापितरौ ! एवमेतन्निःप्रतिकर्मताया यहुःखरूपत्वमुक्तं यथा स्फुटं सत्यं, परं परिभाव्यतामिदं, परिकर्म चिकित्सां कः करोत्यरण्ये मृगपक्षिणां ? तेऽपि च जीवन्ति विचरन्ति च, ततः किमस्या दुःखरूपत्वमिति भावः ॥ ७६ ॥ ततश्चमूलम्-एगभूओ अरण्णे वा, जहा उ चरई मिगो। एवं धम्मं चरिस्सामि, संजमेण तवेण य ॥७७॥ ___ व्याख्या--एकभूत एकत्वम्प्राप्तः 'अरण्णेवत्ति' अरण्येऽटव्यां, वा पूरणे, 'जहा उत्ति' यथैव चरति मृगः, एवं धर्म चरिष्यामि संयमेन तपसा च हेतुभूतेन ॥ ७७ ॥
C ASSACROSS