SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १२ व्याख्या -- हुताशने ज्वलति केत्याह-चितासु परमाधार्मिकरचितासु महिप इव दग्धो भस्मसात्कृतः, पक्को भडित्रीकृतः, अवशः पापकर्मभिः 'पाविओत्ति' प्राप्तो व्याप्तः, प्रापितो वा नरकम् ॥ ५७ ॥ मूलम् —बला संडासतुंडेहिं, लोहतुंडेहिं पक्खिहिं । विलुत्तो विलवंतोऽहं, ढंक गिद्धेहिंऽणंतसो ॥ ५८ ॥ व्याख्या -- बलात् हठात् सन्दंशाकाराणि तुण्डानि येषां ते सन्दशतुण्डास्तैः, तथा लोहतुण्डैः पक्षिभिर्दत्रैरिति योगः, एते च वैक्रिया एव, तत्र तिरश्चामभावात् । विलुप्तो विविधं छिन्नो विलपन्नहमिति ॥ ५८ ॥ मूलम् - तण्हा किलंतो धावंतो, पत्तो वेअरणिं नई। जलं पाहंति चिंतंतो, खुरधाराहिं विवाइओ ॥ ५९ ॥ व्याख्या- 'विवाइओत्ति' व्यापादितः ॥ ५९ ॥ मूलम् — उण्हाभितत्तो संपत्तो, असिपत्तं महावणं । असिपत्तेहिं पडतेहिं, छिन्नपुत्रो अणेगसो ॥ ६० ॥ व्याख्या - उष्णेन वज्रवालुकादितापेनाभितप्तः सम्प्राप्तोऽसयः खङ्गास्तद्वद्भेदकानि पत्राणि यत्र तदसिपत्रम् ॥६०॥ मूलम् -- मुग्गरेहिं मुसंढीहिं, सूलेहिं मुसलेहि अ । गयासं भग्गगत्तेहिं, पत्तं दुक्खमणंतसो ॥ ६१ ॥ व्याख्या -- मुद्गरादिभिः शस्त्रविशेषैः गता नष्टा आशा परित्राणविषया यस्मिंस्तद्गताशं यथास्यादेवं 'भग्गगत्तेहिंति' भग्नगात्रेण सता मयेति शेषः ॥ ६१ ॥ एकोनविंश मध्ययनम्. गा ५८- ६१
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy