________________
उत्तराध्ययन
॥ ३९८ ॥
१५
१८
२१
२४
व्याख्या – 'उच्छ्रवत्ति' इक्षव इव, आरसन्नादन् ॥ ५३ ॥
मूलम् — कूवंतो कोलसुणएहिं, सामेहिं सबलेहि अ । पाडिओ फालिओ छिन्नो, विष्फुरंतो अणेगसो ५४ व्याख्या -- कूजन्नाक्रंदन्, कोलशुनकैः शूकरश्वानरूपधरैः श्यामैः शबलैश्च परमाधार्मिकविशेषः पातितो भुवि पाटितो जीर्णवस्त्रवत्, छिन्नो वृक्षवत्, विस्फुरन्नितस्ततश्चलन् ॥ ५४ ॥
मूलम् - असीहिं अयसीवण्णाहिं, भल्लीहिं पट्टि सेहि य। छिन्नो भिन्नो विभिन्नो अ, उववण्णो पावकम्मुणा५५ व्याख्या—असिभिः कृपाणैः 'अयसिवण्णाहिंति' अतसीकुसुमवर्णैः कृष्णैरित्यर्थः, भल्लीभिः पट्टिशैश्च आयुधविशेषैः छिन्नो द्विधाकृतो, भिन्नो विदारितो, विभिन्नः सूक्ष्मखण्डीकृतः, अवतीर्णः पापकर्मणा हेतुना नरके इति शेषः ५५ मूलम् -- अवसो लोहरहे जुत्तो, जलते समिलाजुए। चोइओ तो त्तजोत्तेहिं, रोज्झो वा जह पाडिओ ॥ ५६ ॥
व्याख्या— लोहरथे लोहमये शकटे युक्तो योजितो ज्वलति दीप्यमाने कदाचित्ततो दाहभिया नश्येदपीत्याहसमिलायुते युगकीलिकायोक्रादियुक्ते 'चोइओत्ति' प्रेरितस्तोत्र यो क्रेः प्राजनकबन्धनविशेषैः 'रोज्झोवत्ति' रोज्झः पशुविशेषः, वा समुच्चये भिन्नक्रमश्च, यथेयौपम्ये, ततो रोझवत्पातितश्च लकुटादिपिट्टनेनेति शेषः ॥ ५६ ॥ मूलम् — हुआसणे जलंतंमि, चिआसु महिसो विव । दडो पक्को अ अवसो, पावकम्मेहिं पाविओ ॥५७॥
एकोनविंश मध्ययनम्. (१९)
गा ५४-५७
॥ ३९८ ॥