________________
३
१२
व्याख्या - क्रंदन कंदुकुंभीषु लोहादिमयीषु पाकभाजनविशेषरूपासु हुताशने देवमायाकृते ॥ ४९ ॥
मूलम् — महादवग्गिसंकासे, मरुम्मि वइवालुए । कलंबवालुआए अ, दडपुवो अनंतसो ॥ ५० ॥
व्याख्या - महादवाग्निसंकाशे, अत्रान्यस्य तादृगूदाहकतरस्याभावादेवमुपमा प्रोक्ता, अन्यथा त्विहत्याग्नेरनंतगुण एव तत्रोष्णः पृथिव्यनुभाव इति । 'मरुंमित्ति' तास्थ्यात्तद्यपदेशसम्भवादन्तर्भूतोपमार्थत्वाच मरौ मरुवालुकानिकरकल्पे, 'वइरवालुएत्ति' वज्रवालुकानदीपुलिने, कदम्बवालुकायां कदम्बवालुकानदीपुलिने च ॥ ५० ॥ मूलम् -- रसंतो कंदुकुंभीसु, उड्डुं बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुवो अनंतसो ॥ ५१ ॥ व्याख्या—-रसन्नाक्रंदन कंदुकुंभीषु क्षिप्तः, ऊर्द्ध वृक्षशाखादौ बद्धो माऽयमितोऽनंक्षीदिति नियंत्रितः । क्रकचं करपत्रविशेष एव ॥ ५१ ॥
मूलम् -- अइतिक्खकंटयाइण्णे, तुंगे सिंबलिपायवे । खेविअं पासबद्वेणं, कड्डोकड्डाहिं दुकरं ॥ ५२ ॥ व्याख्या - खेविअंति' खिन्नं खेदोऽनुभूतः मयेति गम्यते, 'कड्डोकाहिंति' आकर्षणाप्रकर्षणैः परमाधार्मिककृतैः दुष्करं दुःसहमिदमिति शेषः ॥ ५२ ॥
| मूलम् — महाजंतेसु उच्छू वा, आरसंतो सुभेरवं । पीलिओम्मि सकम्मेहिं, पावकम्मो अनंतसो ॥५३॥
एकोनविंश मध्ययनम्. गा ५०-५३