________________
उत्तराध्ययन
॥ ३९० ॥
१२
१५
१८
२१
दीक्षानावं दत्त पूज्या, मज्जतो मे भवार्णवे ! ॥ ४८ ॥ ततस्तैदक्षितस्तीव्रं स व्रती पालयन्त्रतम् ॥ चतुर्द्दशाऽपि पूर्वाणि, पपाठ प्राज्यधीवलः ॥ ४९ ॥ तप्यमानस्तपोऽत्युग्रं, द्वादशाब्दीं विहृत्य सः ॥ मासिकानशनेनाभू-खर्लोके | पञ्चमे सुरः ॥ ५० ॥ तत्र चायं पूरयित्वा सागराणि दशाऽऽयुषा ॥ च्यूत्वाऽभूद्वाणिजग्रामे, श्रेष्ठिश्रेष्ठः सुदर्शनः ॥ ५१ ॥ सम्यग्दर्शनपूतात्मा, द्योतयन् जिनशासनम् ॥ चिरं सुदर्शनस्तत्र, श्राद्धधर्ममपालयत् ॥ ५२ ॥ तत्र ग्रामेऽन्यदा खामी, श्रीवीरः समवासरत् ॥ केकीवाब्दं तमायातं श्रुत्वा श्रेष्ठी जहर्ष सः ॥ ५३ ॥ ततो नत्वा जिनं श्रुत्वा, धर्मं स श्रेष्ठिपुङ्गवः ॥ विरक्तो व्रतमादत्त, दत्तवित्तत्रजोऽर्थिषु ॥ ५४ ॥ तत्राऽपि स श्रेष्ठमुनिः सदङ्ग - पूर्वाणि पूर्वा| ण्यखिलान्यधीत्य ॥ कर्मक्षयासादित केवलर्द्धि-भेजे महानन्दमुदारकीर्त्तिः ॥ ५५ ॥ इति महावलर्षिकथा || "अयं पञ्चमाङ्गभणितो महाबल इहोतो, यदि चान्यः कोऽपि प्रतीतो भवति तदा स एवात्र वाच्यः” इति सप्तदशसूत्रार्थः ॥ ५१ ॥ इत्थं महापुरुषदृष्टान्तैर्ज्ञानपूर्वकक्रियाफलमुपदर्श्य साम्प्रतमुपदेष्टुमाह
मूलम् — कहं धीरे अहेऊहिं, उम्मत्तोव महिं चरे । एए विसेसमादाय, सूरा दढपरकमा ॥ ५२ ॥ व्याख्या - कथं केन प्रकारेण धीरोऽहेतुभिः क्रियावाद्यादिकल्पित कुहेतुभिरुन्मत्त इव ग्रहगृहीत इव तत्वापल| पनेनालजालभाषितया महीं भुवं चरेद्धमेन्नैव चरेदित्यर्थः । कुत इत्याह-यत एते पूर्वोक्ता भरतादयो विशेषं मिथ्या१ ज्ञात्वा इति "घ" पुस्तके ॥
अष्टादशमध्ययनम्
(१८)
महाबलरा
जर्षिकथा ४८-५५
गा ५२
॥ ३९० ॥