________________
अष्टादशमध्ययनम् महाबलराजांधकथा ३६-४७
दृष्ये द्वे, हयलालोपमे दधत् ॥ आपादादाशिरोन्यस्तै, राजन्माणिक्यमण्डनैः ॥ ३६॥ विस्मेरपुण्डरीकाभ-पुण्डरी- केण राजितः ॥ वेल्लकल्लोललोलाभ्यां, चामराभ्यां च वीजितः ॥ ३७॥ सहस्रेण नृणां वाबा-मारूढः शिविकां। शुभाम् ॥ चतुरङ्गवलाढ्येना-ऽनुयातो बलभूभुजा ॥ ३८॥ भेरीप्रभृतितूर्याणां, नादैर्गर्जानुकारिभिः ॥ अकाण्डताण्डवारम्भ, जनयन्केलिककिनाम् ॥ ३९॥ हित्वा रमामिमां दीक्षा-मादत्ते यौवनेऽपि यः ॥ सोऽयं कृतार्थ इत्युच्चैः, स्तूयमानोऽखिलैर्जनैः ॥४०॥ ददानो दानमर्थिभ्य-श्चिन्तामणिरिवेहितम् ॥ प्राप पावितमाचार्यैः, पुरान्निर्गत्य तद्वनम् ॥ ४१॥ [ सप्तभिः कुलकम् ] याप्ययानादथोत्तीर्ण, पुरस्कृत्य महाबलम् ॥ गत्वान्तिके गुरोस्तस्य, पितरावित्यवोचताम् ॥ ४२ ॥ प्रियः पुत्रोऽयमस्माकं, विरक्तो युष्मदन्तिके ॥ दीक्षां गृह्णाति तच्छिष्य-भिक्षां वो दद्महे : वयम् ! ॥ ४३ ॥ ओमित्युक्तेऽथ गुरुभि-रेशानी दिशमाश्रितः ॥ सर्वान्मुमोचालङ्कारा-विकारानिव भूपभूः!॥४४॥ | छिन्नमुक्तावलिमुक्ता-कल्पान्यश्रूणि मुञ्चती ॥ गृह्णती तानलङ्कारां-स्तदेत्यूचे प्रभावती ॥ ४५ ॥ जात ! त्वं जातुचिन्माभू-धर्मकृत्ये प्रमद्वरः ॥ आराधयेर्गुरुवचः, सन्मंत्रमिव सर्वदा ! ॥४६॥ अथ नत्वा गुरून् राज्ञि, राज्ञीयुक्ते ततो गते ॥ लो चं चकार भूपाल-नन्दनः पञ्चमुष्टिकम् ॥४७॥ धर्मघोषगुरून् भक्त्या, नत्वा चेति व्यजिज्ञपत् ॥
१ हयलालामृदू दधत् । इति 'घ' संज्ञकपुस्तके ॥ हयलाला अश्वफेनः॥ २ श्वेतच्छत्रेण ॥ ३ स्वयं केशानुदखनत् , कुमारः पञ्चमुष्टिभिः ॥ इति 'घ' पुस्तके पाठः ॥