SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३८९॥ अष्टादशमध्ययनम् महाबलराजर्षिकथा २३-३५ *** कायेऽस्मिन् किं सुखं नृणाम् ? ॥२२॥ किञ्च सत्यसामर्थ्य, व्रतं युक्तं न वार्द्धके ॥वार्द्धके ह्यक्षमतनोः, स्याद्विनाऽपि मनो व्रतम् ॥ २३॥ प्रभावत्यभ्यधादाभिः, समग्रगुणधामभिः॥ भोगान्सहाष्टभिः स्त्रीभि-(श्व किं साम्प्रतं व्रतम्? ॥ २४ ॥ महाबलोऽब्रवीक्लेश-साध्यैर्वालिशसेवितैः ॥ दुःखानुबन्धिभिर्भोगैः, किं मे विषफलोपमैः ? ॥ २५॥ किञ्च मोक्षप्रदं मर्त्य-जन्मभोगकृते कृती ॥ वराटिकाकृते रत्न-मिव को हारयत्यहो ! ॥ २६ ॥ अम्बाऽवादीदिदं जात !, द्रव्यजातं क्रमागतम् ॥ खैरं विलस पुण्यद्रोः, फलं ह्येतदुपस्थितम् ! ॥ २७ ॥ अभ्यधाद्भपभूर्मात-गोत्रिचोराग्निराजसात् ॥ क्षणाद्भवति यद्वित्तं, प्रलोभयसि तेन किम् ? ॥ २८॥ किञ्च प्रेत्य सहाऽऽयाति, योधर्मोऽनन्तशर्मदः ॥ धनं तद्विपरीतं त-त्समतामनुवीत किम् ? ॥ २९ ॥ राज्ञी जगौ वह्निशिखा-पानवदुष्करं व्रतम् ॥ कुमार! सुकुमारस्त्वं, कथङ्कारं करिष्यसि ? ॥ ३०॥ उवाच नृपभूः स्मित्वा, मातः ! किमिदमुच्यते ? ॥ नराणां कातराणां हि, व्रतं भवति दुष्करम् ! ॥३१॥ पालयन्ति प्रतिज्ञा खां, वीराः प्राणव्ययेऽपि ये ॥ परलोकार्थिनां तेषां, न हि तहुष्करं परम् ! ॥ ३२॥ विहाय मोहं तत्पूज्या, प्रताय विसृजन्तु माम् ॥ परोऽपि प्रेर्यते धर्म-चिकीः किं पुनरात्मजः १ ॥३३॥ तं तत्वविज्ञं वैराग्या-त्प्रकम्पयितुमक्षमौ ॥ व्रतार्थमन्वमन्येता, कथंचित्पितरौ ततः ॥ ३४ ॥ सोऽथ मूर्दाभिषिक्तेना-ऽभिषिक्तस्तीर्थवारिभिः॥ ज्योत्स्नासधर्मभिर्लिप्त-गात्रः श्रीचन्दनद्रवैः॥ ३५ ॥ अदूष्ये देव ** ** ॥३८९॥ *
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy