SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् महाबलराजर्षिकथा ८-२२ HOROSCORRECCHA वधूवराणां तेषां च, यौतकं तद्ददौ नृपः॥वंश्यादासप्तमात्कामं, दातुं भोक्तुं च यद्भवेत् ॥ ८॥ ताभिः सद्गुणकान्ताभिः, कान्ताभिः सममष्टभिः ॥ कामभोगान्यथाकामं, सोऽभुक्त सततं ततः॥९॥ साधुपञ्चशतीयुक्तः, वंश्यः श्रीविमलाहतः ॥ आचार्यो धर्मघोषाख्यः, पुरे तत्राऽन्यदाऽऽययौ ॥१०॥ तं च श्रुत्वाऽऽगतं तुष्ट-मनाः श्रीमान्महाबलः॥ गत्वा प्रणम्य शुश्राव, धर्म कर्ममलोदकम् ॥ ११॥ ततोऽवाप्तः स वैराग्यं, मन्दभाग्यैः सुदुर्लभम् ॥ श्रीधर्मघोषसूरीन्द्र, प्रणम्येति व्यजिज्ञपत् ॥ १२॥ धर्मोऽसौ रोचते मह्यं, जीवातुरिव रोगिणे ॥ तत्पृष्ट्वा पितरौ याव-दायामि व्रतहेतवे ॥ १३ ॥ तावत्पूज्यैरिह स्थेयं, मयि बाले कृपालुभिः ॥ सूरिरूचे युक्तमेत-प्रतिवन्धं तु मा कृथाः ! ॥ १४ ॥ [ युग्मम् ] सोऽथ गत्वा गृहं नत्वा, पितरावित्यवोचत ॥ धर्मघोपगुरोधर्म, श्रुत्वाऽवापमहं मुदम् ॥१५॥ तत्पूज्यानुज्ञया दीक्षा-मादित्सेऽहं तदन्तिके ॥ सम्प्राप्यापि प्रवहणं, मग्नस्तिष्ठति कोऽम्बुधौ ? ॥ १६ ॥ मूर्च्छिता न्यपतत्पृथ्व्यां, तच श्रुत्वा प्रभावती ॥ कथंचिल्लुब्धसंज्ञा तु, रुदतीति जगाद तम् ॥ १७ ॥ विश्लेषं नेश्महे सोढे, पुत्र ! प्राणप्रियस्य ते ॥ तद्यावत्स्मो वयं ताव-त्तिष्ठ पश्चात्परिव्रजेः ॥ १८॥ कुमारः माह संयोगाः, सर्वेऽमी खप्नसन्निभाः ॥ नृणामायुश्च वातास्त-कुशाग्रजलचञ्चलम् ! ॥ १९ ॥ तन्न जानामि कः पूर्व, पश्चाद्वा प्रेत्य यास्यति ॥ तदद्यैवानुजानीत, प्रव्रज्याग्रहणाय माम् ॥ २०॥ देव्यूचे तव कायोऽयं, रम्योऽभिनवयौवनः ॥ भुक्त्वा तदङ्ग ! सौख्यानि, गृह्णीया वार्द्धके व्रतम् ॥ २१॥ कुमारः माह रोगाढये-ऽशुचिपूर्णे मलाविले ॥ कारागार इवाऽसारे,
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy