SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३८८॥ अष्टादशमध्ययनम् (१८) गा ५१ व्याख्या-तथैव विजयो राजा, आनष्टा सामस्त्येनापगता अकीर्तिरश्लाघा यस्य सः आनष्टाकीर्त्तिः, प्राकृतत्वा- त्सिलोपः 'पवएत्ति' प्राब्राजीत् , राज्यं गुणैः समृद्धं सम्पन्नं गुणसमृद्ध, प्राच्य तु'शब्दस्यापिशब्दार्थस्य भिन्नक्रमस्येह योगाद्गुणसमृद्धमपि प्रहाय त्यक्त्वा महायशाः । इह च लघुवृत्तौ काशिराजो नंदनाह्वः सप्तमबलदेवो विजयश्च द्वितीयबलदेव इति व्याख्यातमस्ति, तत एतौ तावन्यौ वा यथागमवाच्यौ, निर्णयाभावाचात्र नानयोः कथा लिखितेति ५० मूलम्-तहेवुग्गं तवं किच्चा, अवक्खित्तेण चेअसा। महब्बलो रायरिसी, आदाय सिरसा सिरी॥५१॥ PI व्याख्या-तथैव उग्रं तपः कृत्वा अव्याक्षिप्तेन चेतसा महाबलो राजर्षिरादाय गृहीत्वा शिरसेव शिरसा शिरः प्रदानेनेव जीवितनिरपेक्षमित्यर्थः, श्रियं भावश्रियं संयमरूपां तृतीयभवे परिनिर्वृत इति शेषः । तत्कथा त्वेवम्। अत्रैव भरतक्षेत्रे, नगरे हस्तिनापुरे ॥ बलो नामाऽतुलवलो, वसुधाखण्डलोऽभवत् ॥ १॥ दीपप्रभावती तस्य, जज्ञे राज्ञी प्रभावती ॥ अन्यदा तु सुखं सुप्ता, सिंहं स्वग्ने ददर्श सा ॥२॥ तया मुदितया पृष्टः, स्वप्नार्थमथ पार्थिवः॥ प्रोचे भावी तव सुतो-ऽस्मत्कुलाम्भोधिचन्द्रमाः ॥३॥ तन्निशम्य मुदं प्राप्ता, दधौ गर्भ प्रभावती ॥ काले च सुपुवे पुत्रं, पवित्रं पुण्यलक्षणः॥४॥ प्राज्यं जन्मोत्सवं कृत्वा, शिशोस्तस्याभिधां व्यधात् ॥ महावल इति क्षमापः, प्रमोदाद्वैतमाश्रितः ॥५॥ लाल्यमानोऽथ धात्रीभि-बर्द्धमानः क्रमेण सः ॥ कलाकलापमापन्नः, पुण्यं तारुण्यमासदत् ॥ ६॥ अष्टो राजाङ्गजाः श्रेष्ठा, दिशां श्रिय इवाऽऽहताः॥ एकेनाहा पितृभ्यां स, पर्यणायि महामहः ॥७॥ महाबलराजर्षिकथा ॥ ३८८।।
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy