________________
६
९
१२
उ० ६६
दर्शनेभ्यो जिनशासनस्य विशिष्टतामादाय गृहीत्वा सूरा दृढपराक्रमा एतदेवाश्रितवन्त इति शेषः । ततस्त्वयाऽपि विशेषज्ञेन धीरेण च सता अत्रैव निश्चितं चेतो विधेयमिति ॥ ५२ ॥ किञ्च -
मूलम् — अच्चंतनिआणखमा, सच्चा मे भासिआ वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥ ५३ ॥ व्याख्या - अत्यन्तं अतिशयेन निदाने कर्ममलशोधने क्षमा समर्था अत्यन्तनिदानक्षमा, सत्या मे मया भाषिता 'वइत्ति' वाक्, जिनशासनमेवाश्रयणीयमित्येवंरूपा । अनया चाङ्गीकृतया अतार्षुस्तीर्णवन्तस्तरन्त्येकेऽपरे सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वा इत्थमभिधानं । तरिष्यन्त्यनागता भाविनो भव्या भवार्णवमिति शेषः ॥ ५३ ॥ यतश्चैवमतः
मूलम् — कहं धीरे अहेऊहिं, अत्ताणं परिआवसे । सङ्घसंगविणिमुक्के, सिद्धे हवइ नीरएत्ति बेमि ॥ ५४ ॥
व्याख्या - कथं धीरोऽहेतुभिः क्रियादिवादिकल्पितकुयुक्तिभिरात्मानं खं पर्यावासयेत् ? कथमात्मानं अहेत्वावासं कुर्यान्नैव कुर्यादित्यर्थः । अथात्मनि कुहेतूनामवासने किं फलमित्याह — सर्वे सङ्गा द्रव्यतो द्रव्यखजनादयो भावतस्तु मिथ्यात्वरूपत्वादेत एव क्रियादिवादास्तैर्विनिर्मुक्तो विरहितः सर्वसङ्गविनिर्मुक्तः सन् सिद्धो भवति नीरजा निष्कर्मा । तदनेनाऽहेतुत्यागस्य सम्यग्ज्ञानहेतुत्वात् सिद्धत्वं फलमुक्तमिति सूत्रत्रयर्थः ॥ ५४ ॥ इत्थमनुशास्य विजहे क्षत्रिययतिः, संजयोपि चिरं विहृत्य प्राप्तकेवलः सिद्ध इति ब्रवीमीति प्राग्वत् ॥
अष्टादशमध्ययनम् गा ५३-५४