SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अष्टादशम. ध्ययनम् उदायनराजर्षिकथा १९४-२०८ XUSUSIRIRSASHARANGAN मायात-मुदायननृपो मुदा ॥ गत्वा नत्वा देशनां च, निशम्येति व्यजिज्ञपत् ॥ १९४ ॥ राज्यमङ्गजसात्कृत्वा, व्रतार्थ युष्मदन्तिके ॥ यावदायाम्यहं ताव-त्पावनीयमिदं वनम् ॥१९५॥ प्रतिबन्धं मा कृथास्त्व-मित्युक्तः स्वामिना ततः ॥ उदायनो जिनं नत्वा, गृहं गत्वेत्यचिन्तयत् ॥ १९६ ॥ सुतायाभीचये राज्यं, यदि दास्यामि साम्प्रतम् ॥ तदाऽसौ मूञ्छितस्तत्र, भ्रमिष्यति भवे चिरम् ! ॥ १९७ ॥ आपातसुन्दरं राज्यं, विपाके चातिदारुणम् ॥ तदिदं न हि पुत्राय, दास्ये विषफलोपमम् ! ॥ १९८ ॥ ध्यात्वेति राज्ये विन्यस्य, जामेयं केशिनं नृपः॥ जिनोपान्ते प्रवत्राज, केशिराजकृतोत्सवः ॥ १९९ ॥ तपोभिरुपवासाद्य-र्मासान्तरतिदुष्करैः ॥ शोषयन्कर्म कायं च, राजर्पिर्विजहार सः॥२०॥ अन्यदा तद्वपुष्यन्त-प्रान्ताहारैरभूदुजा ॥ भिषजो भेषजं तस्या, रुजोऽभिदधिरे दधि ॥२०१॥ उदायनमुनिप्रष्ठो, गोष्ठेषु व्यहरत्ततः॥ दधिभिक्षा हि निर्दोषा, तेष्वेव सुलभा भवेत् ॥ २०२॥ पुरे वीतभयेऽन्येद्यु रुदायनमुनिर्ययौ ॥ केशिभूपस्तदामात्यै-रित्यूचेऽहेतुवैरिभिः॥२०३॥ परिपहैर्जितो नूनं, मातुलस्तव भूपते ! ॥राज्य६ लिप्सुरिहायासी-ततो मा तस्य विश्वसीः !॥ २०४ ॥ केश्यूचे राज्यनाथोऽसौ, राज्यं गृह्णातु किं मम ?॥ धनेशे गृह्णति द्रव्यं, वणिक्पुत्रस्य किं रुषा ? ॥२०५॥ अभ्यधु(सखा धर्मः, क्षत्रियाणां न खल्वयम् ॥ प्रसह्य गृह्यते राज्यं, राजन्यैर्जनकादपि ! ॥२०६ ॥प्रतिदद्या न तद्राज्यं, प्रत्यदान्न हि कोऽपि तत् ॥ तैरित्युक्तस्ततः केशी, किं कार्यमिति पृष्टवान् ? ॥ २०७ ॥ दुष्टास्ते प्रोचुरेतस्मै, विषं दापय केनचित् ॥ व्युद्भाहितस्तैस्तदपि, प्रतिपेदे स SACANCARNAMASCALAMALS
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy