SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन अष्टादशम ॥३८६॥ ध्ययनम् (१८) उदायनरा जर्षिकथा १७९-१९३ कृतपूर्वोऽयं, प्रश्नोऽद्य क्रियते कथम् ? ॥१७९ ॥ध्यात्वेति सूदमित्यूचे, पृच्छसीदं कुतोऽद्य माम् ? ॥ सरसा रस-|| वत्याऽऽगा-नित्यं हि समये स्वयम् ॥ १८०॥ सूदोऽवादीदद्यपर्वा-ब्दिकं तत्सपरिच्छदः ॥ उपोषितोऽस्ति नः | खामी, पृच्छामि तदिदं तव ॥ १८१ ॥ अवन्तीशोऽवदत्साधु, पर्वेदं ज्ञापितं त्वया ॥ तन्ममाप्युपवासोऽद्य, पितरौ श्रावको हि मे ॥ १८२॥ तत्प्रद्योतवचः सूदो-ऽप्याख्यद्वीतभयप्रभोः ॥राजाऽप्युवाच श्राद्धोऽसी, यादृशो वेनि तादृशम् ॥ १८३ ॥ मायाश्राद्धेऽपि किन्त्वस्मिन् , बद्धे पर्युषणा मम ॥न शुद्ध्यतीति प्रद्योत-मुदायननृपोऽमुचत् ॥ १८४ ॥ क्षमास्थानोः क्षमस्तं चा-ऽक्षमयत्स क्षमाधवः ॥ पट्टबन्धं च भालात, तस्याऽऽच्छादयितुं ददौ॥ १८५॥ तदादिपट्टबन्धोऽपि, श्रीचिह्न भूभुजामभूत् ॥ मौलिमेव हि ते मौलौ, पुरा तु दधिरेऽखिलाः ॥ १८६ ॥ तस्मै देशं |च तं सत्य-सन्धः सिन्धुप्रभुर्ददौ ॥ अतीतासु च वर्षासु, पुरं वीतभयं ययौ ॥ १८७॥ वणिजस्ते तु तत्रैव, स्कन्धा|वारास्पदेऽवसन् ॥ पुरं दशपुराहत-त्तैरेव च ततोऽभवत् ॥१८८॥अन्यदोदायननृपः,पौषधौकसि पौषधी॥धर्मजागरिकां जाग्र-द्रजन्यामित्यचिन्तयत् ॥ १८९॥ धन्यास्ते नगरपामा-करद्रोणमुखादयः॥पवित्रयति यान् श्रीमान् , वर्द्धमानो जगद्गुरुः !॥ १९ ॥ श्रुत्वा वीरविभोर्वाणी, श्राद्धधर्म श्रयन्ति ये ॥ दीक्षामाददते ये च, धन्यास्तेऽपि नृपादयः ! ॥ १९१॥ तचेत्पुनाति पादाभ्यां, पुरं वीतभयं विभुः ॥ तदा तदन्तिके दीक्षा-मादाय स्यामहं कृती ! ॥ १९२ ॥ तच तचिन्तितं ज्ञात्वा, चम्पातः प्रस्थितः प्रभुः ॥ एत्य वीतभयोद्याने, समवासरदन्यदा ॥ १९३ ॥ श्रुत्वाऽथ नाथ ॥३८६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy