SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३८५॥ SACRECRACTERRORSCIER प्रद्योतश्चण्डतां गतः ॥ साधु दूत ! वियातोऽसि, मदरोऽपीत्थमात्थ यत् ! ॥ १५१॥ अर्चाचेट्यौ रत्नभूते, हरतः|| अष्टादशमका त्रपा मम? ॥ कार्य यथा तथा रत्न-मात्मसादिति न श्रुतम् ? ॥ १५२॥ न दास्ये प्रतिमा चेमां, न हि दातु- ध्ययनम् मिहानयम् ॥ प्रतिमाशेषतां गन्ता, जिघृक्षुः प्रतिमां स तु ! ॥१५३॥ तन्माऽऽयासीदृथायासी, जेता मां नाग- (१८) तोऽपि सः॥ दन्ताबलो बलिष्ठोऽपि, नाचलं चलयत्यहो ! ॥ १५४ ॥ वाक्यं तस्येति दूतोऽपि, गत्वा राज्ञे न्यवेद- उदायनरा. | यत् ॥ तन्निशम्य नृपोप्युच्चैर्यात्रानकमवीवदत् ॥ १५५॥ ससैन्यैर्बद्धमुकुटै-दशभिः सह राजभिः ॥ प्रत्यवन्ति प्रत जर्षिकथा १५१-१६४ |स्थेऽथ, ज्येष्ठमासि स पार्थिवः ॥ १५६ ॥ सैन्यैर्भुवं तदूत, रजोभिश्च दिशोऽखिलाः॥छादयन्मरुदेशो:-मम्बुदुःस्थां क्रमादगात् ॥१५७॥ तस्यां विना जलं तृष्णा-कुलं तस्याऽखिलं बलम्॥आसन्नमृत्युवदभू-नष्टवाग मीलितेक्षणम् ॥१५८॥ ततःप्रभावतीदेव-मुदायननृपोऽस्मरत्॥आगात्सुरोऽपि तत्कालं, कालक्षेपो न तादृशाम् ॥१५९॥ पुष्कलैः पुष्करावर्त| पुष्करोपमपुष्करैः ॥ पूर्णानि विदधे त्रीणि, पुष्कराणि स निर्जरः॥१६०॥ शीतलं सलिलं तेषु, पीत्वा खस्थमभूदलम् ॥ विनाऽन्नं जीव्यते जातु, न पुनर्जीवनं विना॥१६१॥ सुरोऽथ भूपमापृछय, जगाम निजधाम सः॥क्रमादुज्जयिनीपुर्यामुदायननृपोऽप्यगात् ॥ १६२ ॥ दूतेनाचीकथञ्चैवं, कृपालुालवाधिपम् ॥ किं मारितैर्जनैर्जन्यं, भवत्वन्योन्यमावयोः! ॥१६॥ रथी सादी निषादीवा, पदातिर्वा यथा भवान् ॥ युयुत्सते तथा वक्तु, यथाऽऽगच्छाम्यहं तथा ॥१६४॥ १ निर्लज्जः ॥ २ मरणतां गमिष्यतीत्यर्थः ॥ ३ वृथापयासी ॥ ४ गजः ॥ ५ यात्रापटहम् ॥ ३८५॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy