________________
तीतां, मुदं प्राप्ता प्रभावती ॥ अभ्यर्च्य भक्त्या सन्तुष्टा, तुष्टाव सरसैः स्तवैः ॥ ८२ ॥ जज्ञे प्रभावना जैन - शाशनस्यततो भृशम् | आनुकूल्यं दधौ किञ्चि नृपोऽपि जिनशासने ॥ ८३ ॥ अन्तरन्तःपुरं चैत्यं, विधाप्याथ धराधवः ॥ | तत्र न्यवीविशत्सार्व - प्रतिमां तां महामहैः ॥ ८४ ॥ त्रिसन्ध्यं पूजयामास विधिवत्तां प्रभावती ॥ तस्यां च नृत्यं कुर्वत्यां नृपो वीणामवादयत् ॥ ८५ ॥ नृत्यन्त्याश्च शिरस्तस्या, न ददर्श नृपोऽन्यदा ॥ ततस्तस्य विहस्तस्य, हस्ततः कम्बिकाऽपतत् ॥ ८६ ॥ किं मया दुष्टु नृत्तं १ य-द्वीणावादनमत्यजः ॥ सकोपमिति राज्ञ्याऽथ, पृष्टो मौनं दधौ नृपः ॥ ८७ ॥ तयाऽथ साग्रहं पृष्टः, सद्भावं भूधवोऽब्रवीत् ॥ तन्निशम्य महासत्वा, महादेवीत्युवाच सा ॥ ८८ ॥ सेवितश्राद्धधर्मायाश्चिरं मे न हि मृत्युभीः ! ॥ तन्निमित्तादितोऽल्पायुः - सूचकात्किमु खिद्यसे ? ॥ ८९ ॥ तयाऽथ स्नातया देहि, वासांसीत्युदिताऽन्यदा । आनिन्ये तानि रक्तानि काचिच्चेटी ससम्भ्रमा ॥ ९० ॥ जिनं पूजयितुं चैत्यं, प्रविशन्त्या ममाऽधुना ॥ ददासि दासि ! वासांसि किं रक्तानीति वादिनी ॥ ९१ ॥ जातकोपा ततो राज्ञी, दर्पणेन जघान ताम् ॥ तेन मर्मणि लग्नेन, सा भुजिष्या व्यपद्यत ॥ ९२ ॥ [ युग्मम् ] सानुतापा ततो राज्ञी, दध्यौ धिकू किं कृतं मया ॥ खंडितं हि व्रतं घाता - दस्या दास्या निरागसः ! ॥ ९३ ॥ विधायानशनं तस्मा - | देनदेनः क्षिपाम्यहम् ॥ व्रतभंगे हि जाते किं, जीवितेन विवेकिनाम् ? ॥ ९४ ॥ विमृश्येति खमाकूतं, राज्ञी राज्ञे व्यजिज्ञपत् ॥ भूपः स्माहानुमंस्येऽहं नेदं त्वद्वशजीवितः ॥ ९५ ॥ देव्यूचे दुर्निमित्तेन, तेनाल्पायुष्कतां मम ॥
१२
अष्टादशमध्ययनम् उदायनराजर्षिकथा
८२-९५