________________
अष्टादशमध्ययनम् उदायनराजर्षिकथा ५४-६७
**HARKHERISHABHARA
त्वां भोगकाम्यया ॥ विरक्तः प्रात्रजमहं, ततः प्रापमिमां रमाम् ॥५४॥ निषिद्धोऽपि मया बाल-मृत्युना त्वं मृतोऽसि यत् ॥ प्रापः कष्टेन तेनापि, तदेवं देवदुर्गतिम् ॥ ५५॥ अथ धर्म जिनप्रोक्तं, तदा चेदकरिष्यथाः ॥ मद्वत्तदा त्वमप्येवं, वर्लक्ष्मीमवरिष्यथाः ॥५६॥ प्रबुद्धः स ततोऽवादी-त्किं गतस्यानुशोचनैः ? ॥ अथ किञ्चित्तदाख्याहि, येनाऽमुत्र शुभं लभे॥ ५७ ॥ ऊचे श्राद्धसुरो वीर-जिनस्य प्रतिमां कुरु ॥ सुलभं बोधिरत्नं स्या-द्यथा तव भवान्तरे ॥ ५८ ॥ दौःस्थ्यदुर्गतिदुःखादि, नाऽहंदर्चाकृतां भवेत् ॥ धर्मश्च जायते खर्गा-पवर्गसुखदायकः! ॥ ५९॥ ततः क्षत्रियकुण्डाख्य-ग्रामे गत्वा स निर्जरः ॥ सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ॥६० ॥ गार्हस्थ्येऽपि कृतोत्सर्ग, भावसाधुत्वसाधनात् ॥ श्रीवर्द्धमानतीर्थेशं, ददर्श प्रणनाम च ! ॥६१॥ [ युग्मम् ] द्राग् महाहिमव-| त्यद्रौ, ततो गत्वा स दैवतः ॥ गोशीपचन्दनं विश्वा-नन्दनामोदमाददे ॥६२ ॥ प्रतिरूपं प्रभोस्तत्र, यथादृष्टं विधाय |सः॥ सत्काष्ठसम्पुटे हारं, समुद्गक इव न्यधात् ॥ ६३॥ षण्मासी यावदुत्पाता-दब्धौ भ्राम्यदितस्ततः ॥ सोऽथ | बोहित्थमैक्षिष्ट, व्यग्रसांयात्रिकत्रजम् ॥ ६४ ॥ ततो हृत्वा तदुत्पातं, प्रत्यक्षीभूय स खयम् ॥ सांयात्रिकेभ्यो दत्वा | त-दारुसम्पुटमित्यवक् ॥६५॥ इह देवाधिदेवस्य, मूर्तिय॑स्तास्ति चान्दनी ॥ तदादाय तदाबानं, भेदनीयमिदं मुदा ॥६६॥ युष्माभिरित्युदीर्यादो, देयं वीतभयप्रभोः ॥ कार्य पाण्मासिकोत्पात-हर्नुः कार्यमियन्मम ॥ ६७॥