SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् (१८) उदायनराजर्षिकथा ४०-५३ उत्तराध्ययन सोऽसकृत् ॥ ३९ ॥ इङ्गिनीमृत्युना मर्नु-मुद्यतं तं जडं ततः ॥ व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ॥३८१॥ ॥४०॥ भो ! मित्राऽमात्रधीपात्र !, नैतत्कापुरुषोचितम् ॥ युज्यते भवतः कर्तुं, सिंहस्येव तृणाशनम् ॥४१॥ किञ्चातितुच्छभोगार्थ, दुर्लभं मानुषं भवम् ॥ मा हार्षीधुसदां रत्न-मिव काचकृते कृतिन् ! ॥ ४२ ॥ अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि ॥ धर्ममेवाचराभीष्ट-दायिनं सुरशाखिवत्॥४३॥ मित्रोपदेशमप्येनं, मोहोन्मत्तोऽ| वमत्य सः ॥ आपादादाशिरोदेह-माच्छाद्य छागगोमयैः ॥४४॥ चिरं दारुवदनिभ्यां, प्रदत्तेनाग्निना ज्वलन् ॥ देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ॥४५॥ [ युग्मम् ] तमेवमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः ॥ अहो ! विमूढा भोगार्थ, क्लिश्यन्त इति चिन्तयन् ॥ ४६॥ प्रव्रज्य नागिलश्राद्धो, विपद्याऽभूत्सुरोऽच्युते ॥ ददर्शावधिना तं च, वयस्यं पूर्वजन्मनः ॥४७॥ [युग्मम् ] उपस्थितेऽन्यदा नन्दी-श्वरयात्रामहोत्सवे ॥ नश्यतोऽपि गले विद्य-न्मालिनः पटहोऽपतत् ॥४८॥ अस्मत्कान्तेन वाद्योऽसौ, ध्रुवं तत्किं पलायसे ? ॥ इति हासाप्रहासाभ्याँ, प्रोचे स व्यन्तरस्तदा ॥४९॥ ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः ॥ तत्रागतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ॥५०॥ ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा ॥ तत्तेजोऽसहमानोऽसौ, पलायत तथा तथा ॥५१॥ लावतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ ॥ सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् ? ॥५२॥ ततः प्राग्भवरूपं खं, प्रदश्येत्यवदत्स तम् ॥ सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ॥ ५३॥मृतं कुमृत्युना प्रेक्ष्य, तदा ॥३८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy