SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ अष्टादशम. ध्ययनम् उदायनरा| जर्षिकथा २६-३९ पश्यामी-त्युक्ते तेन जगौ जरन् ॥ वटोऽयं दृश्यते वार्द्धि-तटस्थाद्रिनितम्बजः॥ २६॥ यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः ॥ ततस्तूर्णं त्वमुत्प्लुत्या-ऽमूढोऽस्मिन्विलगेस्तरौ ॥२७ ॥ वसन्ति वसतावस्मिन् , गिरौ भारण्डपक्षिणः ॥ ते च प्रातः पञ्चशैलं, ब्रजन्ति चुंणिहेतवे ॥ २८ ॥ अंहृयः स्युस्खयस्तेषां, ततस्त्वं मध्यमे क्रमे ॥ पटेन खं निवनीयाः, तस्य सुप्तस्य कस्यचित् ॥ २९ ॥ ततस्त्वां पञ्चशैलाख्य-द्वीपे नेष्यन्ति ते खगाः ॥ शक्ष्याम्यहं तु प्रवैया, ग्रहीतुं न हि तं बटम् ॥ ३०॥ वटात्पुरो महावर्ते, पोतस्त्वेष पतिष्यति ॥ तत्रैव च मया साई, विनाशमुपयास्यति! ६॥३१॥ अथ त्वमपि चेद्यग्रो, न्यग्रोधं न ग्रहीष्यसि ॥ तदा तूर्णं तमावर्त, गते पोते मरिष्यसि ! ॥ ३२ ॥ एवं वृद्धे वदत्येव, वटाधो वहनं ययौ ॥ विलग्नः सोऽपि तत्र द्राक् , पञ्चशैलमगात्ततः ॥ ३३॥ तं चायातं भोक्तुमुत्कं, ते देव्यावित्यवोचताम् ॥ अनेन भूघनेन त्वं, न नौ भोगाय कल्पसे ! ॥ ३४ ॥ कर्णोऽपि लभते भूषाः, सोढच्छेदन|वेदनः ॥ सोढदाहादिकष्टं च, वर्णमप्यनुते मणीन् ! ॥ ३५॥ तद्गत्वा खगृहं दत्वा, दीनादीनां निजं धनम् ॥कृत्वा वहिप्रवेशादि-कष्टं त्वमपि सत्वरम् ॥ ३६॥ द्वीपस्यास्य श्रियामासा-मावयोश्च पतिर्भव॥भूरिलाभाय दक्षैर्हि, किञ्चि कष्टमपीप्यते ! ॥ ३७॥ [युग्मम् ] अथ तत्र कथं यामी-त्युक्ते रक्तेन तेन ते ॥ चम्पापुर्या निन्यतुस्तं, कलादं विकलं स्मरात् ! ॥ ३८ ॥ कथमागाः किञ्च चित्रं ?, तत्रेत्युक्तोऽथ नागरैः॥ हा ! क्व हासाग्रहासे ते, इत्येव स्माह १ रात्रौ ॥२ चरितुम् ॥ ३ वृद्धः ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy