________________
उत्तराध्ययन ॥ ३७८ ॥
१५
१८
२१
२४
णान् ॥ नृत्यं चक्रुस्तदा हृद्यं, पुरो राज्ञः पदे पदे ॥ ७४ ॥ इत्थं महर्द्धिभिर्भव्य-जीवानां मोदयन्मनः ॥ सिञ्चन् सद्भावपीयूषैः, सुकृतक्षोर्णिजन्मनः ॥ ७५ ॥ कल्पद्रुम इवात्यर्थं ददानो दानमर्थिनाम् ॥ आत्मानं मानयन्माना-पदमुत्कृष्टसम्पदाम् ॥ ७६ ॥ परिच्छदेन पौरैश्च महत्तरसुतेन च ॥ समं समवसरण - समीपं प्राप पार्थिवः ॥ ७७ ॥ [ त्रिभिर्विशेषकम् ] उत्तीर्याथ गजाद्राज- ककुदानि विमुच्य सः ॥ जिनं प्रदक्षिणीकृत्य, सतंत्रो विधिनाऽनमत् ॥ ७८ ॥ जिनाधीशं जनाधीशो, हर्षगद्गदया गिरा ॥ स्तोत्रैर्महाथैः स्तुत्वा च यथास्थानमुपाविशत् ॥ ७९ ॥ तदा चावधिना ज्ञात्वा राज्ञस्तादृशमाशयम् ॥ इति दध्यौ हरिभक्ति - रहो राज्ञोऽस्य भूयसी ! ॥ ८० ॥ परमत्राभिमानस्तु, कर्त्तुं नामुष्य युज्यते ॥ भवेत्रिभुवनेनाऽपि, भक्तिः पूर्णा हि नाऽर्हताम् ! ॥ ८१ ॥ ध्यात्वेति हर्नु तन्मानं, सम्पदुत्कर्ष| सम्भवम् ॥ प्रतिबोधयितुं तं च समादिष्टो विडौजसा ॥ ८२ ॥ चतुःषष्टिसहस्राणि द्विपानैरावणामरः ॥ सितत्वोचत्वविजित - कैलासान् व्यकरोन्मुदा ॥ ८३ ॥ [ युग्मम् ] प्रत्येकं द्वादशयुतां तेषु पञ्चशतीं मुखान् ॥ मुखं मुखं प्रति रदा-नष्टावष्टौ च निर्ममे ॥ ८४ ॥ प्रतिदन्तं पुष्करिणी-रष्टावष्टौ मनोरमाः ॥ तासु प्रत्येकमष्टाष्ट, पद्मान् लक्षच्छदान् | व्यधात् ॥ ८५ ॥ दलेषु तेषु प्रत्येकं, द्वात्रिंशद्वद्धनाटकम् ॥ प्रत्यजकर्णिकं चक्रे, प्रासादं च चतुर्मुखम् ॥ ८६ ॥ पश्यनृत्यानि तान्युच्चे - महिषीभिर्युतोऽष्टभिः ॥ अध्यास्त तांश्च प्रासादा- न्सर्वानपि सुपर्वराट् ॥ ८७ ॥ “ एवंच - "
१ जनान् ॥
अष्टादशमध्ययनम्
(१८) दशाणेभद्रचरित्रम्
७४-८७
॥ ३७८ ॥