________________
55454545RSE
खरिवाऽध्यक्ष, क्षमापोऽध्यक्षैरचीकरत ॥६०॥[पञ्चभिः कुलकम् 1 प्रातश्च विधिना खात्वा, चन्दनालिसभूघनः ॥लाअष्टादशमअदृष्ये देवदूष्ये द्वे, दधद्भासुरभूषणः ॥६१॥ आतपत्रेण पूर्णेन्दु-पवित्रेण विराजितः ॥ चतुर्भिश्चामरैर्वीज्य-मानो! ध्ययनम् डिण्डिरपाण्डुरैः ॥ ६२॥ केनाप्यवन्दि न यथा, वन्दे जिनमहं तथा ॥ध्यायन्निति मुदाऽध्यास्त, महाराजो महा- दशार्णभद्र
चरित्रम् गजम् ॥ ६३॥[ त्रिभिर्विशेषकम् ] आरूढसिन्धुरा भूषा-बन्धुराश्च सहस्रशः ॥ सामन्ताः परिवत्रुस्तं, शक्रं सामा
६०-७३ निका इव ॥ ६४ ॥ पादाभ्यां प्रेरितो राज-कुअरेणाऽथ कुञ्जरः॥ शनैः प्रववृते गन्तुं, भूमिभङ्गभयादिव ! ॥६५॥ सहस्रशस्तदाऽन्येऽपि, वारणा वैरिवारणाः ॥ चलाचलोपमाश्चेलु-र्मणिमण्डनमण्डिताः॥६६॥ सहोदराः सप्ससप्तिसप्तीनां तत्र सप्तयः ॥ लक्षशः पुपुषुर्लक्ष्मी, भूरिभूरिविभूषणाः ॥ ६७ ॥ आयुक्तहरयो हारि-श्रियस्तत्र सहस्रशः॥ रथा दिद्युतिरे तिग्म-द्युतिस्यन्दनसोदराः॥ ६८॥ नानाविधायुधभृतः, पत्तयोऽपविपत्तयः॥ शिश्रियुः सुषमा बीरकोटीरास्तत्र कोटिशः ॥ ६९ ॥ अध्यासितानि राज्ञीनां, पञ्चशत्या पृथक् पृथक् ॥ रेजिरे याप्ययानानि, सदेवीकविमानवत् ॥ ७० ॥ प्रक्कणकिङ्किणीकाण-मुखरीकृतदिग्मुखाः ॥ अभ्रंलिहा ध्वजा रेजुः, पञ्चवर्णाः सहस्रशः ॥७१॥ आतोद्यैर्लक्षशो भम्भा-भेरिप्रभृतिभिस्तदा ॥ युगपद्वादितैर्जज्ञे, शब्दाद्वैतमयं जगत् ॥ ७२ ॥ मुदा मङ्गलवाक्यानि, पेठुर्मङ्गलपाठकाः ॥ श्रवःसुधाश्रवागीति-रगायन् गायनास्तदा ॥७३ ॥ वारवध्वोऽप्सरःकल्पा, गायन्त्यो भगवद्
१ सूर्याश्वानाम् ॥ २ अश्वाः ।। ३ सप्तशत्या इति तु 'घ' संज्ञकपुस्तके ॥ ४ शिविका–पालखी-इति भाषा ।