SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३७७॥ अष्टादशमध्ययनम् दशार्णभद्रचरित्रम् ४६-५९ मुग्धोप्यसौ तु धर्माय, क्लिश्यतेऽर्जयितुं धनम् ॥ ४६॥ तद्धार्मिकस्य पुंसोऽस्य, कुर्वे का प्रत्युपक्रियाम् ॥ तस्येति ध्यायतः सैन्य-मागादश्वपदानुगम् ॥४७॥ ततो नृपः सहादाय, नरं तमुपकारिणम् ॥ ययौ निजं पुरं तं च, सचक्रे भोजनादिना ॥ ४८ ॥ तदा चायुक्तपुरुषै-रिति व्यज्ञपि भूपतिः ॥ पुरोद्यानेऽद्य समव-सृतोऽस्ति चरमो जिनः ॥४९॥ तत्कण्र्णामृतमाको -दञ्चद्रोमाञ्चकञ्चकः ॥ नृपोऽनमजिनं मौलि-स्पृष्टभूस्त्यक्तविष्टरः ॥ ५० ॥ दत्वा दानं जीविकाह-मर्हदागमवादिनाम् ॥ भूभृन्मणी सहृदय-ग्रामणीरित्यचिन्तयत् ॥५१॥ तागविवेकविकलो-5प्यसौ वैदेशिको नरः ॥ पुपूजयिषति खीय-देवांश्चेत्सर्वसम्पदा ॥५२॥ तदा समग्रसामग्री-मतामस्मादृशां विशाम् ॥ विवेकिनां विशेषेण, कर्तुमर्हाऽर्हणाऽर्हतः ॥५३॥ध्यात्वेत्यादिशदुवीशो, द्विपाद्यधिकृतान्कृती ॥ कार्या विशेषात्सामग्री, प्रातर्नन्तुं जगद्गुरुम् ॥ ५४ ॥ विभाते वन्दितुं सार्व, सामन्तामात्यनागराः ॥ श्रेष्ठां कुर्वन्तु सामग्री-मिति चाघोषयत् पुरे ॥ ५५॥ तृणगोमयभस्मादि-सम्मार्जनपवित्रितम् ॥ संसिक्तं चन्दनाम्भोभिः, पुष्पप्रकरचित्रितम् ॥ ५६ ॥ हृद्यं वन्दनमालाभिः, सहोलाभिरिव श्रियाम् ॥ धृतानङ्कानेकचन्द्र-मिव कुम्भैश्च राजतैः॥ ५७ ॥ उदिताब्दमिवाकाण्डे, धूपधूमैर्निरन्तरैः ॥ धृतचक्रधनुर्लक्ष-मिव माणिक्यतोरणैः ॥ ५८ ॥ अभितः शोभितं श्रेयो-हेतुभिः | केतुकोटिभिः ॥ विमानवद्राजमानै-रश्चितं चारुमश्चकैः ॥ ५९॥ प्रारब्धखखकर्त्तव्यं, जल्लमल्लनटादिभिः ॥ खपुरं १ अनका अकरहिताः कलकरहिता इत्यर्थः ।। SHOCCASSASSAX ॥३७७॥ *
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy