________________
१२
ललंघे न तु मर्यादां, स गम्भीरोऽम्बुराशिवत् ॥ ४ ॥ [ इतश्च ] वराटविषये धान्य- पुरे धान्य भरैर्भृते ॥ महत्तरः श्रिया कोऽपि महत्तरसुतोऽभवत् ॥ ५ ॥ कान्ता तु तस्य कुलटा, गृहनाथे बहिर्गते । सान्यासिकेन केनाऽपि समं खच्छन्दमारमत् ॥ ६ ॥ पुरे तत्राऽन्यदाऽऽयातैः, प्रारब्धे नाटके नटैः ॥ रामावेषं दधद्रम्यं, ननर्त्तको नटो युवा ॥ ७ ॥ दम्भैकविज्ञा विज्ञाय, कथंचित्तं च पूरुषम् ॥ तत्रारज्यत साऽत्यंतं, धर्षिणी धर्मधर्षिणी ॥ ८ ॥ प्रतिबन्धो हि बन्धक्या, वात्याया इव न क्वचित् ॥ यो युवा दृढदेहश्व, तस्याः स्यात्स तु वल्लभः ! ॥ ९ ॥ ततः सा पुंश्चली छन्नं, नटपेटकनायकम् ॥ इत्युवाच हियं हित्वा कामान्धानां हि का त्रपा १ ॥ १० ॥ एनमेष दधद्वेषं, रमते चेन्मया समम् ॥ तदा ददामि वः सारं, वस्त्रं किंचिन्मनोरमम् ॥ ११ ॥ नटाधीशोऽपि तद्वाक्यं, मुदितः प्रत्यपद्यत । ते हि प्रायः कुशीलाः स्युः, किं पुनः स्त्रीभिरर्थिताः ! ॥ १२ ॥ संप्रत्यायात्ययं किन्तु, तब वेश्म के विद्यते ? ॥ इत्युक्ताऽथ नटेशेन सा खसौधमदर्शयत् ॥ १३ ॥ गृहं गत्वा नटकृते, पायसं च पपाच सा ॥ स्त्रीवेषः सोऽपि तत्रागा- न्नटेशप्रेषितो नटः ॥ १४ ॥ आसितस्याऽशितुं तस्य, पुरः सा पुंश्चली मुदा ॥ स्थालमस्थापयद्यावत्, प्राज्यखण्डाज्यपायसम् ॥ १५ ॥ तावत्सांन्यासिकोऽभ्येत्य द्वारमुद्घाटयेत्यवक् ॥ शनैस्तं नटमित्यूचे, ततः सा पांशुलाऽऽकुला ॥ १६ ॥ अस्मिंस्तिलापवरके, गत्वा त्वं तिष्ठ कोणके ॥ तयेत्युक्तः सोऽपि तत्र, प्रविश्य द्राग् न्यलीयत ॥ १७ ॥ तयाऽथो
१ असती ॥ २ असत्याः ॥
अष्टादशमध्ययनम् दशार्णभद्रचरित्रम्
४-१७