SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ 1564 उत्तराध्ययन ॥३७५॥ कि अष्टादशमध्ययनम् (१८) जयचक्रिकथा २-७ गाथा ४४ शीलालङ्कारशालिनी ॥ वप्रः शालिगुणालीनां, वप्रा तस्य प्रियाऽभवत् ॥ २॥ द्विः सप्तभिर्महाखप्नैः, सूचितोऽभूत्सुतस्तयोः ॥ जयायो जयन्तस्य, जयन् रूपं वपुःश्रिया ॥३॥ कलिन्दिकासुधाः पीत्वा, क्रमाद्यौवनमाश्रितः ॥ स द्वादशधनुस्तुङ्गः, पित्र्यां राज्यधुरां दधौ ॥४॥ जातचक्रादिरत्नश्च, जितषट्खण्डभारतः ॥ बुभुजे रमणीरत्न-मिव चक्रिरमां चिरम् ॥ ५॥स चान्यदा भवोद्विग्नः, संविग्नस्यान्तिके गुरोः॥राज्ये निधाय तनयं, सनयंप्राव्रजत्खयम् ॥६॥ सर्वायुषा त्रीनतिगम्य सम्यक, समासहस्रान् जयचक्रवर्ती ॥ तपोनिलैः कर्मघनानपास्य, प्राप्योत्तमं ज्ञानमवाप मुक्तिम् ॥ ७॥ इति श्रीजयचक्रिकथा ॥४३॥ मूलम्-दसण्णरजं मुइ, चइत्ता णं मुणी चरे। दसण्णभदो निक्खंतो, सक्खं सकेण चोइओ ४४ &ा व्याख्या-दशार्णो देशस्तद्राज्यं मुदितं प्रमोदवत् त्यक्त्वा 'ण' वाक्यालङ्कारे, मुनिश्चरेत् अचारीत् अप्रतिवद्धतया व्यहार्षीदित्यर्थः। दशार्णभद्रो निष्क्रान्तः,साक्षाच्छऋण चोदितोऽधिकसम्पदर्शनेन धर्म प्रति प्रेरित इति। तत्कथा त्वेवम् श्रीमद्दशार्णविषये, दशार्णपुरपत्तने ॥ दशार्णभद्रो भद्राणा-माकरोऽभून्महीपतिः॥१॥ स राजहंसः शुद्धात्मा, दाचित्तानेष्ववसत्सताम् ॥ उवास तस्य चित्ते तु, धर्म एव जिनोदितः ॥२॥ जज्ञिरे तस्य शुद्धान्ते, राज्यः पञ्चशतानि ताः॥ यत्प्राप्तिचिन्तया मन्ये, न निद्रान्ति स्म निर्जराः ! ॥३॥ वार्द्धारीव तस्यासी-क्षमाव्याप्तिक्षमाचमूः॥ १ सप्तशतानि-इति तु 'घ' संज्ञकपुस्तके ।। दशार्णभद्रचरित्रम् १-३ ॥३७५॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy