SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३७४॥ अष्टादशमध्ययनम् महापझचक्रिकथा १४९-१५७ SACARALASA न्तयत् ।। संघोऽसौ भगवान् भीता-श्वामी पद्मसुरादयः ॥ १४९ ॥ कोपापहारहेतोर्मा, सान्त्वयन्ति मुहुर्मुहुः ॥ मान्यः संघोऽनुकम्प्याश्च, पद्मदेवादयोऽपि मे ॥ १५०॥ [युग्मम् ] ध्यात्वेति वृद्धिं संहृत्य, पूर्वावस्थोऽजनिष्ट सः॥ ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ॥ १५१॥ मुमोच नमुचिं विष्णु-मुनिः संघोपरोधतः ॥ तं धीसखाधमं पद्म-चक्री तु निरवासयत् ॥ १५२ ॥ संघकार्य विधायेति, शान्तो विष्णुर्महामुनिः ॥ आलोचितप्रतिक्रान्तस्तीनं तत्त्वा तपश्चिरम् ॥ १५३॥ उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् ॥ चक्रिपद्मा च पद्मोऽपि, बुभुजे रुचिरां चिरम् ॥ १५४॥ [युग्मम् ] सन्त्यज्य राज्यमन्येयुः, परिव्रज्याऽन्तिके गुरोः ॥ स दशाब्दसहस्राणि, तीनं व्रतमपालयत् ॥ १५५ ॥ त्रिंशद्वर्षसहस्रायु-श्चापान्विंशतिमुन्नतः ॥ महामहा महापद्म-महाराजो बभूव सः ॥१५६ ॥ तीब्रैस्तपोभिर्घनघातिघातं, निर्माय निर्मायचरित्रचारुः ॥ स केवलज्ञानमवाप्य वापी, श्रेयःसुधायाः श्रयतिस्म सिद्धिम् ॥ १५७ ॥ इति श्रीमहापद्मचक्रिकथा ॥४१॥ मूलम्-एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुस्सिदो, पत्तो गइमणुत्तरं ॥ ४२ ॥ व्याख्या--एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । महीं पृथ्वी प्रसाध्य वशीकृत्येति सम्बन्धः । 'माणनिसूरणोत्ति' दृप्तारातिदर्पदलनः,हरिपेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तदृत्तलेशस्त्वयम्| अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामनि ॥ महाहरिरभूद्भमा-न्मेराह्वाना च तत्प्रिया ॥१॥ हरिषेणस्तयोविश्वा गाथा ४२ ॥३७४॥ हरिषेणचक्रिकथा
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy