________________
अष्टादशमध्ययनम्महापद्मचक्रिकथा १३५-१४८
मुश्चत राज्यं द्राग, यदि वः प्राणितं प्रियम् ॥ रुष्टो विष्णुरथोचेऽति-त्रयस्थानं तु देहि नः ॥ १३५ ॥ अथाख्यनमुचिर्दत्तं, मया वत्रिपदीपदम् ॥ किन्तु तस्मादहियों वः, स्थाता स द्राग् हनिष्यते ॥ १३६ ॥ प्रावत्तेत ततः। कोपा-विष्टो विष्णुः प्रवर्धितुम् ॥ मौलिकुण्डलमालाढ्यः, पविचापकृपाणभृत् ॥ १३७ ॥ स्फारान्विमुञ्चन्फूत्कारान् , कल्पान्तपवनोपमान् ॥ काश्यपी कम्पयन्पाद-दर्दरैर्निखिलामपि ॥१३८ ॥ उल्लालयन्पयोराशीन् , शैलङ्गाणि पातयन् ॥ धात्रीफलौघवज्ज्योति-श्चक्रमप्यपसारयन् ॥ १३९ ॥ क्षोभयन्विविधै रूपै-देवदानवमानवान् ॥ वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥ १४॥ [ त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः॥ पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगजये ॥ १४१॥ त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा ॥ इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ॥१४२॥ क्रोधो धर्मद्रुमज्वाला-जिह्वः खपरदाहकः ॥ खार्थनाशं विधत्तेऽत्र, दत्तेऽमुत्र च दुर्गतिम् ॥ १४३॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम् ॥ इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ॥ १४४ ॥ महापद्मोऽपि तत्रागात् , शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ॥१४५॥ श्रीसंघाशातनां मंत्रि-पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-यज्ञासिषमहं न हि ॥ १४६ ॥ कृतखान्योपतापस्य, पापस्याऽमुष्य मन्तुना ॥ प्राणसन्देहमारूढं, त्रायख भुवनत्रयम् ॥ १४७ ॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनि विविधैर्वाक्यैः, सान्त्वयामासुरुच्चकैः॥१४८ ॥ मौलिस्पृष्टक्रमांस्तांश्च, वीक्ष्य विष्णुयचि