________________
अष्टादशमध्ययनम् महापद्मचक्रिकथा १०७-१२०
देहि मे तं वरं स्वामि-निति पमं व्यजिज्ञपत् ॥१०७॥ यथाकामं वृणुष्वेति, राज्ञा प्रोक्तोऽब्रवीच सः ॥ यज्ञं | यक्ष्यामि तद्राज्यं, तत्प्रान्तावधि देहि मे ॥१०८॥ सत्यसन्धस्ततो राज्ये, निधाय नमुचिं द्रुतम् ॥ शुद्धान्तरात्मा शुद्धान्तमध्यमध्यास्त चक्रभृत् ॥ १०९ ॥ ततः पुरावहिर्गत्वा, नमुचियज्ञपाटके॥ मायया दीक्षितो जज्ञे, बैकोट इव कूटधीः! ॥ ११०॥राज्येऽभिषिक्तं तं वर्धा-पयितुं निखिलाः प्रजाः॥ लिङ्गिनश्चाखिला जैन-मुनिवर्जाः समाययुः ॥११॥ सर्वेप्यागुलिङ्गिनो मां, न पुनः श्वेतभिक्षवः ॥प्रवदन्निति मात्सर्या-त्तच्छिद्रं स पुरोऽकरोत् ॥ ११२॥ आकार्य सुत्रताचार्या-ननार्यो व्याहरच सः॥ राजा यः स्याद्यदा सोऽभि-गम्यते लिङ्गिभिस्तदा ॥ ११३॥ तपोवनानि |हि माप-रक्ष्याणीति तपखिनः ॥ भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ॥ ११४ ॥ स्तब्धा यूयं तु मर्यादा-विकला मम निन्दकाः ॥ तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः॥ ११५॥ स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः ॥ संवासयति वः को हि, लोकराजविरोधिनः ॥ ११६॥ सूरिरूचे न नः कल्प, इति नोपागता वयम् ॥ तवाऽभिषेके न पुन-निन्दामः कश्चिदप्यहो! ॥११७॥ कुधीः क्रुद्धोऽभ्यधात्सोऽथ, पर्याप्त बहुभाषितैः॥ सप्ताहोपरि दृष्टान् वो, घातयिष्यामि चौरवत् ! ॥ ११८॥ ततः खस्थानमागत्य, मुनीनाहूय सूरयः ॥ अथ किं कायमित्यूचुस्तेष्वेकः साधुरित्यवक् ॥ ११९ ॥ सुदुस्तपं तपस्तेपे, षष्टिं वर्षशतानि यः॥ स हि विष्णुकुमारर्षि-मरौ सम्प्रति वर्तते
१ अन्तःपुरमध्ये ॥ २ बकः ।।
SHRIRAMESHA