________________
उत्तराध्ययन ॥३७२॥
अष्टादशम| ध्ययनम्
१५
| महापद्म
९२-१०६
पद्मोत्तरनृपोऽवदत् ॥ ९२॥ श्रुत्वा श्रीसुव्रताचार्या संसारासारतामहम् ॥ मन्ये खं वंचितं काल-मियन्तं व्रतमन्तरा !॥ ९३ ॥ अद्यैव तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके ॥ राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ॥ ९४॥ विष्णुर्जगी विभो ! भोगैः, किं किम्पाकफलोपमैः ? ॥ मोघीकर्तुमघं दीक्षा-मादास्येहं त्वया सह ! ॥ ९५ ॥राज्यमादत्व वत्सेद-मित्याहूयाथ साग्रहम् ॥ पद्म पद्मोत्तरोऽवादी-त्ततः सोऽप्येवमब्रवीत् ॥ ९६ ॥ प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् ॥ श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ! ॥९७॥ भूपः प्रोचेयमुक्तोऽपि, राज्यं नादित्सते कृतिन् ! ॥ आदित्सते तु प्रव्रज्यां, मया सह महाशयः ! ॥९८॥ कृतमौनं ततः पमं, राज्ये न्यस्योत्सवैर्नृपः ॥ सुव्रताचार्यपादान्ते, प्राब्राजीद्विष्णुना समम् ॥ ९९ ॥ पद्मचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे ॥ रथमभ्रमयजैनं, जनन्या जनयन्मुदम् ॥ १० ॥ चक्रे खवंशवजैन-शासनस्योन्नतिं च सः॥ भेजिरे बहवो भव्या-स्ततः शासनमार्हतम् ॥ १.१॥ उच्चैश्चैत्यानि जैनानि, ग्रामाकरपुरादिषु ॥ कोटिशः कारयामास, स चक्री परमार्हतः ॥ १०२॥ केवलं प्राप्य कैवल्यं, प्राप पद्मोत्तरोऽन्यदा ॥ लेभे विष्णुकुमारस्तु, लब्धीका महातपाः !॥ १०३॥ खर्णशैल इवोत्तुंगो, व्योमगामी सुपर्णवत् ॥ बहुरूपः सुर इव, कन्दर्प इव रूपवान् ॥१०४॥ इत्याद्यनेकावस्थावान् , भवितुं प्रबभूव सः॥ नन्वभूलब्धिभोगो हि, विना हेतुं न योगिनाम् ! ॥ १०५॥ तेऽन्येयुः सुव्रताचार्या, भूरिसंयतसंयुताः ॥ श्रीहस्तिनापुरे तस्थु-वर्षातिक्रमहेतवे ॥ १०६ ॥ ज्ञात्वा तान्नमुचिः प्राच्य-पैरशुद्धिविधित्सया॥
॥
७२॥