________________
१२
वाहाभिलाषिणौ ॥ ७७ ॥ पद्मेन परिणीतां तां निशम्य समरोद्यतौ ॥ सूरोदयपुरे सर्वा ऽभिसारेण समीयतुः ॥७८॥ [ युग्मम् ] पुरान्निर्गत्य पद्मोऽपि, विद्याधरचमूवृतः ॥ तत्सैन्येन समं योद्धुं प्रावर्त्तत महाभुजः ॥ ७९ ॥ रथी सादी निपादी वा, पदातिर्वा न कोऽपि हि ॥ पद्मस्य युज्यमानस्य, पुरः स्थातुमभूत्प्रभुः ! ॥ ८० ॥ नैर्ऋतेनानिलेनाब्दमिव पद्मेन सर्वतः ॥ स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतुः ॥ ८१ ॥ तत उत्पन्नचक्रादि-रत्तो ज्वालाङ्गजो बली ॥ पट्खण्डं भरतक्षेत्रं, साधयामास लीलया ॥ ८२ ॥ स्त्रीरत्नवर्जी स प्राप, सकलां चत्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥ ८३ ॥ ततः स क्रीडयाऽन्येद्यु- र्गतस्तं तापसाश्रमम् ॥ सच्चक्रे तापसैश्चारुफलपुष्पादिदायिभिः ॥ ८४ ॥ जनमेजयराजोऽपि भ्रमंस्तत्रागतस्तदा ॥ ददौ तस्मै निजां पुत्रीं, मुदितो मदनावलीम् ॥ ८५ ॥ ततश्चक्रिरमां पूर्णा, कलयन् खपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो हृष्टौ ननाम सः ॥ ८६ ॥ आकर्ण्य कर्णपीयूषं, सूनोर्वृत्तान्तमद्भुतम् ॥ लक्ष्मीं च तादृशीं वीक्ष्य, पितरावत्यहृप्यताम् ॥ ८७ ॥ तदा च सुत्रताचार्याः, शिष्याः श्रीसुत्रतार्हतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ॥ ८८ ॥ तांश्च श्रुत्वा नृपो गत्वा ननाम सपरिच्छदः || देशनां चाटणोन्मोह-हिमापोहरविप्रभाम् ॥ ८९ ॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ॥ तावत्पूज्यैरिह स्थेय - मथेत्यूचे नृपो गुरून् ॥ ९० ॥ विलम्वनीयं नार्थेऽस्मिन्निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश - स्तान्प्रणम्य निजं पुरम् ॥ ९१ ॥ आकार्य मंत्रीसामंत- मुख्यं परिजनं निजम् ॥ पुत्रं च विष्णुनामानं,
अष्टादशमध्ययनम् महापद्मचक्रिकथा ७७-९१