________________
उत्तराध्ययन ॥३७१॥
ददौ कन्याशतं नृपः॥ पुण्यैरगण्यैर्जामाता, प्राप्यते खलु तादृशः !॥ ६३॥ क्रीडंस्ताभिः समं नायं, व्यस्मरन्मदं- टाअष्टादशम
ध्ययनम् नावलीम् ॥ भृङ्गो लवंगीभोगेऽपि, किं विस्मरति पद्मिनीम् ? ॥ ६४ ॥ खेचर्या वेगवत्या स, निशि सुप्तोऽन्यदा हृतः॥
(१८) प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् ? ॥६५॥ साप्यूचे शूर ! हरण-कारणं शृणु मा कुपः !॥ वैताढ्य
| महापद्मपर्वते सूरो-दयं नामास्ति सत्पुरम् ॥ ६६ ॥ तत्र चेन्द्रधनुःसंज्ञो, विद्यते खचरेश्वरः ॥ श्रीकान्ता तद्वधूः पुत्री, जय-|| चक्रिकथा | चन्द्रा तयोः शुभा ॥ ६७ ॥ पुरुषद्वेपिणी साभू-दप्राप्य प्रवरं वरम् ॥ दुःखाकरो हि दक्षाणां, स्त्रीणां हीनः पति- ६३-७६ | शम् ॥ ६८॥ पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् ॥ अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ॥ ६९॥ पटे |मयाऽन्यदा रूपं, तवालिख्य प्रदर्शितम् ॥ तस्याश्चित्तमयस्कान्त-मणिर्लोहमिवाकृषत् ! ॥ ७० ॥ चेदयं दयितो न स्यात् , तदाहमनलं श्रये ॥ इति प्रत्यशृणोत्साऽथ, मत्वा त्वां खलु दुर्लभम् ! ॥ ७१ ॥ तस्यास्तस्यां प्रतिज्ञायांज्ञापितायां मया रयात् ॥ त्वामानेतुं तत्पितृभ्यां, हृष्टाभ्यां प्रहितास्म्यहम् ॥७२॥ तमानये न चेत्तहि, वह्नावहाय याम्यहम् ॥ तामाश्वासयितुं कन्या-मित्युक्त्वेहागमं ततः ॥ ७३ ॥ तां पनीनी मोदयितुं, नये त्वां च प्रभा
॥३७१॥ करम् ॥ तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ॥७४ ॥ साऽथ तं तदनुज्ञाता, निन्ये सूरोदयं पुरम् ॥ विभाते भास्करमिव, तं चन्द्रधनुरार्चयत् ॥ ७५॥ विदधे येन धात्राऽसौ, तस्य स्यामनृणा कथम् ? ॥ ध्यायन्तीमित्युपायंस्त, जयचन्द्रां ततश्च सः ॥ ७६ ॥ तस्याश्च मातुलसुतौ, गङ्गाधरमहीधरौ ॥ विद्याधरी महाविद्यौ, तद्वि