________________
तत्र चोद्यानिकायात-क्रीडन्नागरयोषिताम् ॥ निशम्य तुमुलं हस्ती, महासेनमहीशितुः ॥५०॥ स्तम्भमुन्मूल्य अष्टादशम| मिण्ठौ च, व्यापाद्य व्यालतां गतः ॥ अनु ता नागरीरागा-द्रागाकुल इव क्षणात् ॥५१॥ [ युग्मम् ] ततोऽति-18/ ध्ययनम् भीता नशितु-मनीशास्ताः स्त्रियोऽखिलाः॥ पूचक्रुरिति यो पत्र, वीरोऽस्मान्पातु पातु सः! ॥५२॥ ताश्च पूत्कु
महापद्म
चक्रिकथा वतीः प्रेक्ष्य, पद्मो व्यालं ततर्जतम् ॥ अवलिष्ट ततः सोऽपि, तम्प्रति प्रतिघाकुलः ॥ ५३॥ तमायान्तं स्खलयितुं,
५०-६२ पटं पद्मोऽन्तराऽक्षिपत् ॥ मोऽयमिति तत्रापि, क्रोधान्धः प्राहरत्करी! ॥५४॥ कोलाहलैस्तदा चोग्रैः, पौरलोकोऽखिलोऽमिलत् ॥ महासेनमहीशश्च, समं सामन्तमंत्रिभिः ॥ ५५॥ क्रुद्धात्कालादिव व्याला-दस्मादपसराशु भोः!॥ महापद्मं महासेन, इत्युदाहुस्तदाऽवदत् ॥५६॥ पद्मः माह महाराज!, पश्य खच्छमना क्षणम् ॥ मत्तं मतङ्गजम, वशीकुर्वे वशामिव ! ॥ ५७ ॥ इत्युक्त्वा ताडितो मुष्ट्या, तेन स न्यग्मुखो गजः ॥ यावन्मुक्त्वा पटीवेधं, तं ग्रहीतुं समुत्थितः ॥५८॥ तावत्स विधुदुत्क्षिप्त-करणेनारुरोह तम् ॥ चिरं चाखेदयत्पाणि-पादाङ्गुष्टवचोङ्कुशैः ॥ ५९॥ तं च व्यालं कलभवत् , क्रीडयन्तं समीक्ष्य तम् ॥ विस्मयं भेजिरे पौरा, नृपतिश्च वचोऽतिगम् ! ॥६०॥ दत्वा हस्तिपकायाथ, हस्तिनं तं वशीकृतम् ॥ भूधरादिव पारिन्द्रः, पद्मस्तस्मादवातरत् ॥ ६१॥ धाम्ना स्थाम्ना च तं श्रेष्ठ-कुलभूरिति भूपतिः॥ निश्चिकाय निजं धाम, निनाय च सगौरवम्॥ ६२ ॥ तस्मै कृतोपचाराय,
१ सिंहः ॥