________________
उत्तराध्ययनन्निशि ॥ भ्रमन् खैरमरण्यान्त - स्तापसाश्रममासदत् ॥ ३७ ॥ वल्लभाभ्यागतैस्तत्र, तापसैः कृतसत्कृतिः ॥ सुखं प्रव॥ ३७० ॥ वृते स्थातुं, महापद्मः खसद्मवत् ॥ ३८ ॥
१५
इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः ॥ स च कालेन राज्ञाऽऽजौ, पराभूतः पलायत ! ॥ ३९ ॥ ततः पुरे भज्यमाने, नेशुर्लोका दिशोदिशम् ॥ अन्तःपुरमहेलाश्चा - ऽन्तरा त्रातारमातुराः ! ॥ ४० ॥ तदा चम्पापतेः पत्नी, नष्टा नागवती द्रुतम् ॥ खपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ॥ ४१ ॥ तदा च पद्ममदना - वल्योरन्योन्यदर्श४ नात् ॥ क्षणादाविरभूद्रागो, मन्दाक्षं मन्दतां नयन् ! ॥ ४२ ॥ तद्विज्ञाय जगौ नागवतीति मदनावलीम् ॥ पुरुषे यत्रतत्राऽपि सुते ! किमनुरज्यसे ? ॥ ४३ ॥ भाविनी चक्रिणो मुख्य- पत्नी त्वमिति भाषितम् ॥ ज्ञानिनो वि4 स्मृतं किं ते ?, यद्भवस्येवमुत्सुका ! ॥ ४४ ॥ मिथोरक्ताविमौ का, विप्लवं मेति चिन्तयन् ॥ स्थानं यथेष्टं याहीति, पद्मं कुलपतिर्जगौ ॥ ४५ ॥ तदाकर्ण्य ततः पद्मो, निर्ययौ विमना मनाक् ॥ अभीष्टानां वियोगो हि, महतामपि दुःसहः ! ॥ ४६ ॥ नूनमेषा ममैव स्त्री, भाविनी भाविचक्रिणः ॥ तत्साधयित्वा भरतं, परिणेष्याम्यमूं कदा ? ॥ ४७ ॥ विधाप्यार्हतचैत्यैश्च, मण्डितामखिलामिलाम् ॥ पूरयिष्ये कदा मातू, रथयात्रामनोरथम् ? ॥ ४८ ॥ इत्थं मनोरथरथा - ऽधीरुढो भूपभूस्ततः ॥ श्रीसिन्धुनन्दनपुरो - पवनं प्राप पर्यटन् ॥ ४९ ॥ [ त्रिभिर्विशेषकम् ] ॥
२१
१ लज्जाम् । २ उपद्रवम् ॥
१८
२४
अष्टादशमध्ययनम् (१८) महापद्मचक्रिकथा ३७-४९
11 200 11