________________
१२
॥ २२ ॥ निन्द्यमानो जनैः सर्वैर्विलक्षो नमुचिस्ततः ॥ देव्या मुक्तो ययौ लज्जा - विहस्तो हस्तिनापुरम् ॥ २३ ॥ | सोऽथ तत्र महापद्म - युवराजेन सङ्गतः ॥ तदमात्यपदं प्राप, पापोऽपि प्राच्यपुण्यतः ! ॥ २४ ॥
इतश्चासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः ॥ नृपः सिंहवलः सिंहः, इव प्रबलविक्रमः ॥ २५ ॥ स च प्रदायाव - स्कन्दं, पद्मदेशे मुहुर्मुहुः ॥ खदुर्गं प्राविशत्तं च, ग्रहीतुं कोऽपि नाशकत् ॥ २६ ॥ ध सिंहवलं जाना - स्युपायं | कंचिदित्यथ ॥ पृष्टो रुष्टेन पद्मेन, वेझीति नमुचिर्जगौ ॥ २७ ॥ ततो मुदा महापद्मे - नादिष्टः स गतो द्रुतम् ॥ भंक्त्वा दुर्ग सिंहवलं, बलाद्वङ्का समाययौ ॥ २८ ॥ ततो वरं वृणीष्वेति प्रोक्तः पद्मेन संमदात् ॥ ऊचे नमुचिरादास्ये, काले वरममुं विभो ! ॥ २९ ॥ तत्प्रपद्य चिरं पद्मो, यौवराज्यमपालयत् ॥ ज्वालादेव्याऽथ तन्मात्रा -ऽकारि जैनरथोऽन्यदा ॥ ३० ॥ मिध्यादृष्टिस्तत्सपत्नी, लक्ष्मीर्ब्रह्मरथं तदा । विधाप्योचे नृपं ब्रह्म - रथः प्राग् भ्रम्यतां पुरे ॥ ३१ ॥ ततो ज्वालाऽलपद्रूपं, न चेज्जैनरथोऽग्रतः ॥ पुरे भ्रमिष्यति तदा, करिष्येऽनशनं ध्रुवम् ॥ ३२ ॥ द्वयोरपि स्यन्दनयो-र्यात्रां राजाऽरुणत्ततः ॥ मातुर्दुःखेन तेनाथ, पद्मोऽभूद्भृशमातुरः ! ॥ ३३ ॥ दध्यौ चेति स्पृहा मातुः, मादृशेऽपि सुते सति ॥ व्यलीयत मनस्येव, कदर्यश्रीरिवावनौ ! ॥ ३४ ॥ सुपुत्रत्वाभिमानं हि, कथंकारं करोतु सः १ ॥ शक्तोऽपि यः पूरयति, न मातुः सन्मनोरथान् ! ॥ ३५ ॥ कृतः पित्रापि मन्मातु - विशेषः कोऽपि न हो ! ॥ तन्मानिनो न मे मानं, विनेहाऽवस्थितिः शुभा ! ॥ ३६ ॥ ध्यात्वेति सुप्ते लोके सः, निर्गत्य खपुरा
अष्टादशम ध्ययनम्
महापद्मचक्रिकथा २३-३६