________________
उत्तराध्ययन ॥ ३६९ ॥
१५
तान्नन्तुं यान्ति तद्भक्ता, इत्यूचे सचिवस्ततः ॥ ९ ॥ तत्र यामो वयमपी-त्युक्ते राज्ञाऽथ सोऽब्रवीत् ॥ यद्येवं तर्हि तत्रेशैः, स्थेयं मध्यस्थवृत्तिभिः ॥ १० ॥ पाखण्डिनोऽखिलान्वादे, खामिन् ! जेष्यामि तानहम् ॥ ओमित्युक्त्वा ततो राजा, समंत्री तद्वनं ययौ ॥ ११ ॥ धर्मं चेद्वित्थ तहूते-त्यूचे च नमुचिर्मुनीन् ॥ क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ॥ १२ ॥ ततः स शासनं जैनं, निन्दन्नुद्दिश्य सद्गुरून् ॥ गौरयं किमु वेत्तीति, व्यब्रवीत्सचिवः ॥ १३ ॥ मुखं कण्डूयते ते चेत्, तत्किंचिह्नमहे वयम् ॥ अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगौ ॥ १४ ॥ अनेन सह धृष्टेन वक्तुं युक्तं न वः खयम् ॥ विजेष्ये ह्यहमेवामुं, स्वपक्षं तद्वदत्वयम् ॥ १५ ॥ क्रुद्धः सोऽथावदद्वेद - वाह्याः शौचविवर्जिताः ॥ देशे वासयितुं नार्हा, यूयं पक्षोऽयमस्तु मे ॥ १६ ॥ प्रत्यूचे झुलको वारि, कुम्भशुली प्रमार्जनी ॥ कण्डणी पेपणीत्युक्ताः, पञ्च शूनाः श्रुतिष्वहो ! ॥ १७ ॥ ये हि शूना भजन्त्येता, वेदवायाः त एव हि ॥ तद्वर्जितानामस्माकं तत्कथं वेदवाद्यता ? ॥ १८ ॥ अशौचं तु रेतं तस्य, सेवकश्चाशुचिर्मतः ॥ सुरताद्विरतास्तस्मात्कस्मादशुचयो वयम् ॥ १९ ॥ निरुत्तरीकृत इति, क्षुलकेन स धीसखः ॥ वैरं महद्वहन् साधुध्वगाहं नृपान्वितः ॥ २० ॥ निशायां च मुनीन् हन्तुं क्रोधान्धः स वने गतः ॥ धावन्निहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ॥ २१ ॥ प्रातश्च तं तथा प्रेक्ष्य, विस्मिता नागरा नराः ॥ नृपश्च धर्म सूरिभ्यो, निशम्योपशमं ययुः १ प्राणिवधस्थानानि । “पञ्च शूना गृहस्थस्य, चूली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च बध्यते यास्तु वाह्यन् ॥” [ मनुः ] २ कामम् ॥
अष्टादशमध्ययनम्
(१८)
महापद्म चक्रिकथा
९-२२
॥३६९॥