________________
अष्टादशमध्ययनम् अरनाथचरित्रम् २१-२४ गाथा ४१
KANSARKARSAKAKAR
॥ २०॥ अनुग्रहीतुं भविनो, भूमौ विहरतोऽर्हतः ॥ सङ्घश्चतुर्विध इति, जज्ञे गुणमणीनिधिः ॥२१॥ समभागं कुमारत्वा-दिके स्थानचतुष्टये ॥ आयुश्चतुरशीत्यब्द-सहस्राणि प्रभोरभूत् ॥ २२ ॥ निर्वाणकालं ज्ञात्वाऽथ, गत्वा सम्मेतपर्वते ॥ सह साधुसहस्रेणा-ऽनशनं विदधेऽधिपः ॥ २३॥ एकेन मासेन स सार्वसार्व-भौमो महानन्दपदं ततोऽगात् ॥ निर्वाणकाले च समेत्य तस्य, सबैर्वितेने महिमा सुरेशैः ॥ २४ ॥ इति श्रीअरनाथकथा ॥४०॥ मूलम्-चइत्ता भारहं वासं, चक्कवही महिड्डीओ। चइत्ता उत्तमे भोए, महापउमो तवं चरे॥४१॥ व्याख्या-सुगमं । तचरितं त्वेवम्
अत्रैव भरतक्षेत्रे, श्रीहास्तिनपुरेऽभवत् ॥ इक्ष्वाकुवंशकासार-पद्म पद्मोत्तरं नृपः॥१॥ तस्य ज्वालाभिधा राज्ञी, बभूव परमार्हता ॥ तस्याश्चैकः सुतो विष्णुः, सिंहस्खप्नेन सूचितः ॥ २॥ पद्मासझमहापद्म-नामान्यश्च सुतोऽजनि ॥ तस्याश्चतुर्दशस्वप्न-सूचितो निचितो गुणैः ॥३॥ कलाकलापं सकलं, कलाचार्यादधीत्य तौ ॥ द्वितीयमद्वितीयश्रीवयस्यं प्रापतुर्वयः ॥४॥ तत्र पद्मं जिगीपुत्वा-द्यौवराज्ये न्यधात्पिता॥ विप्रेषु प्राज्ञवाजैत्रः, क्षत्रियेषु हि शस्यते ॥५॥
इतश्चोजयिनीपुर्या, श्रीवासीन्महीपतिः॥ मत्रि तु तस्य नमुचि-वितण्डापण्डितोऽभवत् ॥६॥ तस्यां नगर्यामन्येधु-विहरन् समवासरत् ॥ मुनिसुव्रतनाथस्य, शिष्यः सुव्रतसूरिराट् ॥७॥ तं नन्तुं ब्रजतो वीक्ष्य, पौरान् सौधोपरिस्थितः ॥ अमी जनाः क्व यान्तीति, नमुचिं पृष्टवान्नपः ॥८॥देवाद्योपवने केपि, श्रमणाः सन्त्युपागताः॥
महापद्मचक्रिकथा
१-८
१२