SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३६॥ अष्टादशमध्ययनम् 50% अरनाथचरित्रम् ७-२० क्रमाच नन्दनं नन्द्या-वात काञ्चनद्युतिम् ॥ असूत सा महादेवी, महासेनमिवाद्रिजा ॥७॥ सूतिकर्माणि तस्याथ, दिक्कुमार्यो वितेनिरे ॥ चक्रे जन्माऽभिषेकश्चा-ऽखिलैरिन्द्रः सुराचले ॥८॥ खप्ने रत्नारकं माता-उपश्यदित्यस्य पार्थिवः ॥ अर इत्यभिधां चक्रे, कृत्वा जन्म महोत्सवम् ॥९॥ क्रमाच कलयन् वृद्धिं, त्रिंशचापोचभूघनः॥ पित्राज्ञयाऽङ्गजा राज्ञां, पर्यणैषीत्स यौवने ॥१०॥ अन्येयुः पितुरादेशात् , दधौ राज्यधुरं जिनः ॥ जातचक्रादिरत्नश्चाऽखिलं भरतमन्वशात् ॥ ११॥ चक्रिश्रियं चाऽनासक्तो-ऽभुत योगीव भोजनम् ॥ लोकांतिकैर्बोधितश्चा-ऽन्यदादादानमाब्दिकम् ॥ १२ ॥ राज्यं नियोज्य पुत्रे च, शिविकासंस्थितोविभुः ॥ ययौ सहस्राम्रवणं, सुरासुरनरैर्वृतः ॥ १३ ॥ सह राजसहस्रण, प्रात्राजीत्तत्र तीर्थकृत् ॥ तदा मनःपर्यया, तुर्यज्ञानमवाप च ॥ १४ ॥ ईभारातिरिवाभीतः, पृथिव्यां विहरन् विभुः ॥ भूयोऽप्यागात्सहस्राम्र-वणं संवत्सरैस्त्रिभिः ॥ १५॥ तदा चाभ्युदिते भर्तुः, केवलज्ञानभास्करे ॥ समे समेत्य समव-सरणं वासवा व्यधुः ॥१६॥ वाण्या योजनगामिन्या, सर्वभाषानुयातया ॥ पूर्वसिंहासने तत्रा-ऽऽसित्वा धर्म जगौ जिनः ॥ १७॥ तं चाकर्ण्य जिनाभ्यणे, नैके पर्यव्रजन् जनाः ॥ त्रयस्त्रिंशद्गणधराः, स्वामिना तेषु चक्रिरे ॥ १८॥ श्रमणानां प्रभोः पंचा-शत्सहस्राणि जज्ञिरे ॥ श्रमणीनां पुनः पष्टि-सहस्राणि महात्मनाम् ॥ १९ ॥ लक्षं चतुरशीत्या च, सहस्रैर्युक्तमास्तिकाः ॥ द्वासप्ततिसहस्राग्रं, लक्षत्रयमुपासिकाः १ कार्तिकेयम् । २ सिंहः । ३ सर्वे । ४ त्रयस्त्रिंशद्गणधरान् , तेषु चास्थापयत् प्रभुः ॥ इति 'घ' पुस्तके ॥ A5CRAAG ॥३६८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy