________________
उत्तराध्य
अध्य०१८ ॥८॥
यनसूत्रम्
॥
८॥
ददौ च सकलाभीष्ट-विधायि गुटिकाशतम् ॥ ११॥ ततो निवृत्तः स श्राद्धः, श्रुत्वा दत्ता सुधाभुजा । तामचर्चा चान्दनीं नन्तु-मागाद्वीतभयं पुरम् ॥११६॥ तत्र तं श्रावकं जात-मान्य दैवनियोगतः ।। स्वतातमिव सद्भक्त्या, कुब्जा प्रतिचचार सा ॥११७॥ ततः क्रमाद्गतः स्वास्थ्य, स कृतज्ञशिरोमणिः ॥ तस्यै ता गुलिकाः सर्वा, दत्वा दीक्षामुपाददे ॥११८॥ भूयासमनया स्वर्ण-वर्णाऽहं सुन्दराकृतिः॥ ध्यात्वेति गुलिकामेका, 'भुजिष्या बुभुजेऽथ सा॥११॥ 'आयसीव कुशी सिद्ध-सवेधेन सा द्रुतम् ॥ बभूव तत्प्रभावेण, चारुचामीकरच्छविः ॥१२०॥ सुवर्णगुलिकेत्याहां, प्राप्ता सा व्यमृशत्ततः ॥ भोक्तारमन्तरा फल्गु, रूपं मे वनपुष्पवत् ॥ १२१ ॥ न चाहं कामये, जातु, तातकल्पममुं नृपम् । तत्प्रद्योतोऽस्तु मे भर्चा, नृपः स हि महर्द्धिकः ॥ १२२ ।। एवं विचिन्त्य सा चेटी, गुटीमेकामभक्षयत् ।। तत्स्वरूपं ततो गत्वा, प्रद्योताय जगौ सुरी ।। १२३ ॥ तामानेतुं ततो दूतं, प्रेषीत्प्रद्योतभूधयः ।। सुवर्णगुलिका तं च, व्याजहारेति मानिनी ॥१२४॥ मामाह्वातुमिहायातु, स राट् पश्यामि तं यथा ।। अदृष्टपूर्वमभ्येति, कामिनं न हि कामिनी ! ।। १२५ ॥ इति तद्वचनं दूतो, गत्वा राज्ञे व्यजिज्ञपत् ॥ सोऽप्यारुह्यानलगिरि, तत्र रात्रावुपागमत् ॥ १२६ ॥ तं च प्रेक्ष्यानुरक्ता सा, प्रोचे चेत्प्रतिमामिमाम् ॥ सहादत्से तदाऽऽयामि, त्वया सह महीपते ! ॥१२७।। इह विन्यासयोग्याऽन्या, नास्ति प्रतिकृतिस्ततः ॥तामानयामि त्वच्चेतो, मानयामि मनस्विनि ! ॥१२८|| इत्युदीर्य ततोऽवन्ती-मवन्तीशोऽगमद्रुतम् ॥ तादृशीमपरां वीर-प्रतिमां च व्यधापयत् ॥१२६।। [युग्मम् ] ता च सम्यक् प्रतिष्ठाप्य, कपिलेन महर्षिणा ॥ गन्धद्विपेन तेनाऽऽगा-द्भूयो वीतभये निशि ॥ १३० ॥ दन्तिनं तं बहिमु क्त्वा, ताम_मुद्वहन्मुदा ।। अपाकृत्य भियं तत्रा-ऽविशत्का कामिनां हि भीः ? ॥ १३१ ॥ तत्र तां प्रतिमां न्यस्य, देवदत्तार्चया समम् ॥ तां
१ दासी। २ लोहमयी इव । ३ निकृष्ट असारमित्यर्थः । ४ प्रतिमया ।