________________
उत्तराध्ययनसूत्रम् ॥ ८४ ॥
VATAVARAVOVARS
सुरशाखिवत् ||४३|| मित्रोपदेशमप्येनं, मोहोन्मत्तोऽवमत्य सः । श्रपादादाशिरोदेह - माच्छाद्य द्वागगोमयैः ॥४४॥ चिरं दारुवदधिभ्यां प्रदत्तेनाग्निना ज्वलन् ।। देव्योस्तयोः स्मरन्मृत्वा, विद्युन्मालित्वमासदत् ॥ ४५॥ [युग्मम् ] तमेत्रमिङ्गिनीमृत्या, मृतं वीक्ष्य विरक्तधीः ।। हो ! विमूढा भोगार्थ क्लिश्यन्त इति चिन्तयन् ॥ ४६ ॥ प्रव्रज्य नागिलश्राद्धो, विपद्यऽभूत्सुरोऽच्युते ।। ददर्शऽवधिना तं च वयस्यै पूर्वजन्मनः ।। ४७ ।। [ युग्मम् ] उपस्थितेऽन्यदा नन्दीश्वरयात्रामहोत्सवे ।। नश्यतोऽपि गले विद्य ुन्मालिनः पटहोऽपतत् ॥ ४८ ॥ अस्मत्कान्तेन वाद्योऽसौ, थ वं तत्किं पलायसे १ ।। इति हासामहासाभ्यां प्रोचे स व्यन्तरस्तदा ॥ ४६ ॥ ततस्तं वादयन् शक्र-पुरो नन्दीश्वरे गतः ॥ तत्रगतेन सोऽदर्शि, तेन श्राद्धसुधाभुजा ।। ५० ।। ततस्तं निकषा श्राद्ध-सुरः सोऽगाद्यथा यथा ।। तत्तेजोऽसहमानोSir, पलायत तथा तथा ॥ ५१ ॥ स्वतेजः सोऽथ संहृत्य, मां जानासीति तं जगौ । सुरान् शक्रादिकान्को हि, न जानातीति सोप्यवक् ? ॥ ५२ ॥ ततः प्राग्भवरूपं स्त्रं, प्रदश्येत्यवदत्स तम् ॥ सोऽहं नागिलनामास्मि, पूर्वजन्मसुहृत्तव ॥ ५३ ॥ मृतं कुमृत्युना प्रेक्ष्य तदा त्वां भोगकाम्यया ।। विरक्तः प्राब्रजमहं, ततः प्रापमिमां रमाम् ||२४|| निषिद्धोऽपि मया बाल मृत्युना त्वं मृतोऽसि यत् । प्रापः कष्ट न तैनापि, तदैवं देवदुर्गतिम् ।। ५५ ।। अथ धर्मं जिनप्रोक्तं, तदा चेदकरिष्यथाः । मद्वत्तदा त्वमप्येवं स्वर्लक्ष्मीमवरिष्यथाः ॥ ५६ ॥ प्रबुद्धः स ततोsवादी - किं गतस्यानुशोचनैः १ अथ किञ्चित्तदाख्याहि, येनाऽमुत्र शुभं लभे ।। ५७ ।। ऊचे श्राद्ध सुरो वीर - जिनस्य प्रतिमाँ कुरु सुलभं वोधरत्नं स्या यथा तव भवान्तरे ॥ ५८ ॥ दौःस्थ्यदुर्गतिदुःखादि, नाऽर्हदर्चाकृतां भवेत् ।। धर्मश्च जायते स्वर्गापवर्गसुखदायकः ! ।। ५६ ।। ततः क्षत्रियकुण्डाख्य--ग्रामे गत्वा स निर्जरः ॥ सालङ्कारं निर्विकारं, साराकारं गुणाकरम् ।। ६० ।। गार्हस्थ्येऽपि कृतोत्सगं, भावसाधुत्वसाधनात् ॥ श्रीवर्धमानतीर्थेशं ददर्श प्रणनाम च ! ।। ६१ ।। [ युग्मम् ] द्राग् महाहिमवत्यद्रौ, ततो गत्वा स दैवतः ॥
अध्य० १८ ॥ ८४ ॥