________________
उत्तराध्य
यनसूत्रम् ॥ ८३ ॥
पोते दूरं गतेऽम्बुधौ ॥ पुरः पश्यसि किं किञ्चिदित्यूचे नन्दिनं जरी ॥ २५॥ श्यामं किमपि पश्यामीत्युक्ते तेन जगौ जरन् ।। वटोऽयं दृश्यते वाद्धिं-तटस्थाद्रिनितम्बजः ।। २६॥ यास्यत्यवश्यमस्याधो, यानपात्रमिदं च नः ।। ततस्तूर्णं त्वमुत्प्लुत्या - मूढोऽस्मिन्विलगेस्तरौ ॥ २७॥ वसन्ति 'वसतावस्मिन्, गिरौ भारण्डपक्षिणः ।। ते च प्रातः पञ्चशैलं व्रजन्ति 'चुणिहेतवे ||२८|| हयः स्युनयस्तेषां ततस्त्वं मध्यमे क्रमे ॥ पटेन स्वं निबध्नीयाः, तस्य सुप्तस्य कस्यचित् ॥ २६ ॥ ततस्त्वां पञ्चशैलाख्य- द्वीपे नेष्यन्ति ते खगाः ॥ शक्ष्याम्यहं तु 'प्रवया, ग्रहीतु ं न हि तं वटम् ।।३०।। वटात्पुरो महावर्ते, पोतस्त्वेष पतिष्यति ।। तत्रैव च मया सार्द्धं, विनाशमुपयास्यति ! ॥ ३१ ॥ अथ त्वमपि चेद्व्यग्रो, न्यग्रोधं न ग्रहीष्यसि ॥ तदा तूर्णं तमावर्त्त, गते पोते मरिष्यसि ! || ३२ ॥ एवं वृद्धे वदत्येव, वटाधो वहनं ययौ । । विलग्नः सोऽपि तत्र द्राक्, पंचशैलमगात्ततः ।। ३३ ।। तं चायातं भोक्तुमुत्कं ते देव्यावित्यवोचताम् ॥ अनेन भूघनेन त्वं, न नौ भोगाय कल्पसे ! ||३४|| कर्णोऽपि लभते भूषाः, सोढच्छेदनवेदनः सोढदाहादिकष्टं च, स्वर्णमप्यश्नुते मणीन् ! ||३५|| तद्गत्वा स्वगृहं दत्वा, दीनादीनां निजं धनम् ।। कृत्वा वन्हिप्रवेशादि - कष्टं त्वमपि सत्वरम् ॥३६॥ द्वीपस्यास्य श्रियामासा - मावयोश्च पतिर्भव । भूरिलाभाय दक्षैर्हि, किञ्चित्कष्टमपीष्यते ! ||३७|| [ युग्मम् ] अथ तत्र कथं यामीत्युक्ते रक्तेन तेन ते । चम्पापुर्यां निन्यतुस्तं, "कलादं विकलं स्मरात् १ ॥ ३८ ॥ कथमागाः किञ्च चित्रं १, तत्रेत्युक्तोऽथ नागरैः ॥ हा ! क्व हासामहासे ते, इत्येव स्माह सोऽसकृत् ॥ ३६॥ इङ्गिनीमृत्युना म - मुद्यतं तं जडं ततः ॥ व्याजहारेति तन्मित्रं, श्रावको नागिलाह्वयः ॥४०॥ भो ! मित्राऽमात्रधीपात्र ! नैतत्कापुरुषोचितम् ।। युज्यते भवतः कत्तु, सिंहस्येव तृणाशनम् ॥ ४१ ॥ किञ्चातितुच्छभोगार्थं, दुर्लभं मानुषं भवम् ।। मा हार्षीर्द्य सदां रत्न - मिव काचकृते कृतिन् ! ॥४२॥ अथ यद्यपि ते वाञ्छा, भोगेष्वेव तथापि हि । धर्ममेवाचराभीष्ठ -दायिनं
१ रात्रौ । २ चरितुम् । ३ वृद्धः । ४ शरीरेण । ५ स्वर्णकारम् ।
अध्य० १८
॥८३॥