________________
उत्तराध्ययनमूत्रम् ॥७३॥
अध्य०१८ ॥७३॥
Seeeeeeeeeeeeeeeeeeeeeeeeee
कार्य विधायेति, शान्तो विष्णुमहामुनिः॥ आलोचितप्रतिक्रान्तस्तीव्र तप्त्वा तपश्चिरम् ॥१५३ ॥ उत्पन्नकेवलः प्राप, महानन्दपदं क्रमात् ।। चक्रिपां च पद्मोऽपि, बुभुजे रुचिरां चिरम् ॥ १५४ ॥ [ युग्मम् ] सन्त्यज्य राज्यमन्येयुः, परिव्रज्याऽन्तिके गुरोः॥स दशाव्दसहस्राणि, तीव्र व्रतमपालयत् ॥१५॥ त्रिंशद्वर्षसहस्रायु-श्वापान्विशतिमुन्नतः ।। महामहा महापद्म-महाराजो बभूव सः॥१५६।। तीस्तपोभिर्धनघातिधातं, निर्माय निर्मायचरित्रचारुः ॥ स केवलज्ञानमवाप्य वापी, श्रेयःसुधायाः श्रयतिस्म सिद्धिम् ॥ १५७ ।। इति श्रीमहापद्मचक्रिकथा ।। ४१ ॥ मुलम्-एगछत्तं पसाहित्ता, महिं माणनिसूरणो । हरिसेणो मणुरिंसदो, पतो गइमणुतरं ॥ ४२॥ ___ ब्याख्यां—एकं छत्रं राजचिह्नमस्त्यस्यामित्येकछत्रा तां, अविद्यमानापरनृपामित्यर्थः । 'महीं' पृथ्वी 'प्रसाध्य' वशीकृत्येति सम्बन्धः। "माणनिमरणोत्ति" दृप्तारातिदर्पदलनः, हरिषेणो मनुष्येन्द्रः प्राप्तो गतिमनुत्तराम् । तद्वत्तलेशस्त्वयम
अत्रैव भरतक्षेत्रे, पुरे काम्पी-ल्यनामनि ॥ महाहरिरभूमा-न्मेराह्वाना च तत्प्रिया ॥१॥ हरिषेणस्तयोर्विश्वा-नन्दनो नन्दनोऽभवत् ।। चतुर्दशमहास्वप्नसूचितोऽस्वप्नजिन्महाः॥२॥ कलाकलापमापन्नो, वर्धमानः शशीव सः॥चापपंचदशोत्तुङ्गः, पुण्यं तारुण्यमासदत् ॥३॥राज्यं प्राज्यं पितुः प्राप्य, तस्य पालयतः सतः ।। रत्नान्युत्पेदिरेऽन्येद्यु-चक्रादीनि चतुर्दश ॥४॥ ततः स साधयामास, पटखंडमपि ॥ | भारतम् ॥ जातचक्रित्वाभिषेको, भोगांश्च बुभुजे चिरम् ॥शा भववासाद्विरक्तोऽथ, लघुकर्मतयाऽन्यदा॥सोऽध्यासीदित्यसौ सम्पत , प्राकपुण्यैः सङ्गतास्ति मे ॥ ६॥पुण्यार्जनायभूयोऽपि, प्रयत्नं विदधे ततः ॥ बिनाजनां हि क्षपिते, मूले स्यादुःस्थता भृशम् ! ॥७॥ ध्यात्वेति तनयं न्यस्य, राज्ये स व्रतामाददे । कर्मकक्षमधाक्षीच, सत्तपोजातवेदसा ।। ८॥ समासहस्राणि दशातिवाह्य, सर्वायुषा श्रीहरि