________________
उत्तराध्ययनसूत्रम् ॥७२॥
अध्य०१८ ॥७२॥
प्रियम् ॥ स्टो विष्णरथोचेऽडि प्र-त्रयस्थानं तु देहि नः!॥१३॥ अथाख्यन्नमुचिदत्तं, मया वत्रिपदीपदम् ॥किन्तु तस्मादहियों वः, स्थाता स द्राग हनिष्यते ॥१३६॥ प्रावर्त्तत ततः कोपा-विष्टो विष्णुः प्रवर्षितुम् ।।मौलिकुण्डलमालाढ्यः, पविचापकृपाणभृत् ॥१३७॥ स्फारान्विमुञ्चन्फत्कारान्, कल्पान्तपवनोपमान् ।। काश्यपी' कम्पयन्पाद-दर्दरैर्निखिलामपि ॥१३८।। उल्लालयन्पयोराशीन्, शैलशृङ्गाणि पातयन् ।। धात्रीफलौघवज्योति-श्चक्रमप्यपसारयन् ॥१३६॥ क्षोभयन्विविधै रूपै-देवदानवमानवान् ।। वर्धमानोऽमानशक्तिः, सोऽभून्मेरुसमः क्रमात् ॥१४॥ [त्रिभिर्विशेषकम् ] प्रपात्य नमुचिं पृथ्व्यां, पूर्वापरसमुद्रयोः॥ पादौ विन्यस्तवान् विष्णु-रलम्भूष्णुर्जगज्जये ।।१४१॥ त्रिलोकिक्षोभमालोक्य, शक्रेण प्रहितास्तदा ॥इति कर्णान्तिके तस्या-ऽप्सरसः सरसं जगुः ।।१४२।। क्रोधो धर्मद्रुमज्वाला-जिह्वः स्वपरदाहकः ॥ स्वार्थनाशं विधत्तेत्र, दत्तेऽमुत्र च दुर्गतिम् ॥१४३॥ तच्छान्तरसपीयूषं, निरपायं निपीयताम्॥इत्थं जगुः पुरस्तस्य, ननृतुश्च प्रसत्तये ॥१४४॥ महापद्मोऽपि तत्रागात्, शङ्कातङ्काकुलस्तदा ॥ इलातलमिलन्मौलि-स्तं च नत्वैवमब्रवीत् ॥१४॥ श्रीसंघाशातनां मंत्रि-पाशेनानेन निर्मिताम् ॥ न ज्ञापितोऽस्मि केनापी-त्यज्ञासिपम न हि ॥ १४६ ॥ कृतस्वान्योपतापस्य, पापस्याऽमुष्य मन्तुना ।। प्राणसन्देहमारूढं, बायस्व भुवनत्रयम् ॥ १४७॥ इत्यन्येपि नृपा देवा-सुराः संघस्तथाऽखिलः ॥ तं मुनि विविधैर्वाक्यैः, सान्त्वयामासुरुच्चकैः ॥१४८ ॥ मौलिस्पृष्टक्रमांस्तांच, वीक्ष्य विष्णुळचिन्तयत् ।। संघोऽसौ भगवान् भीता-वामी पद्मसुरादयः ।। १४६ ॥ कोपापहारहेतोमा, सान्त्वयन्ति मुहमुहुः ॥ मान्यः संघोऽनुकम्प्याश्च, पद्मदेवादयोऽपि मे ॥ १५० ॥ [ युग्मम् ] ध्यात्वेति वृद्धिं संहत्य, पूर्वावस्थोऽजनिष्ट सः ॥ ततस्त्रिविक्रम इति, ख्यातिं च प्राप सर्वगाम् ।। १५१ ।। मुमोच नमुचिं विष्णु-मुनिः संघोपरोधतः ॥ तं धीसखाधमं पद्म-चक्री तु निरवासयत् ।। १५२ ॥ संघ
१पृथ्वीं। २ इला पृथ्वीं।