________________
उत्तराध्य
यनसूत्रम्
।। ७० ।।
स्योन्नतिं च सः ॥ भेजिरे बहवो भव्या-स्ततः शासनमार्हतम् ॥ १०१ ॥ उच्चैश्च त्यानि जैनानि, ग्रामाकरपुरादिषु ॥ कोटिशः कारयामास, स चक्री परमार्हतः ।। १०२ ॥ केवलं प्राप्य कैवल्यं प्राप पदमोंत्तरोऽन्यदा । लेभे विष्णुकुमारस्तु, लब्धीका महातपाः ! ॥ १०३ ॥ स्वर्णशैल इवोज़ गो, व्योमगामी सुपर्णवत् ॥ बहुरूपः सुर इव, कन्दर्प इव रूपवान् ॥ १०४ ॥ इत्याद्यनेकावस्थावान्, भवितु • प्रबभूव सः ॥ नन्वभूल्लब्धिभोमो हि, विना हेतु न योगिनाम् ॥ १०५ ॥ तेऽन्युद्यः सुव्रताचार्या, भूरिसंयतसंयुताः ॥ श्रीहस्तिनापुरे तस्थु–वर्षातिक्रमहेतवे ।। १०६ ।। ज्ञात्वा तान्नमुचिः प्राच्य - वैरशुद्धिविधित्सया ।। देहि मे तं वरं स्वामि-निति पद्मं व्यजिज्ञपत् ॥ १०७ ॥ यथाकामं वृणुष्वेति, राज्ञा प्रोक्तोऽब्रवीच्च सः ॥ यज्ञं यक्ष्यामि तद्राज्यं यत्प्रान्तावधि देहि मे ॥ १०८ ॥ सत्यसन्धस्ततो राज्ये, निधाय नमुचिं द्रुतम् । शुद्धान्तरात्मा 'शुद्धान्त - मध्यमध्यास्त चक्रभृत् ॥ १०६ ॥ ततः पुराद्वहिर्गत्वा नमुचिर्यज्ञपाटके ॥ मायया दीक्षितो जज्ञे, 'बकोट इव कूटधीः १ ॥ ११० ॥ राज्येऽभिषिक्तं तं वर्द्धा-पयितुं निखिलाः प्रजाः ॥ लिङ्गिनश्चाखिला जैननिवः समाययुः ॥ १११ ॥ सर्वेप्यागुलिङ्गिनों मां, न पुनः श्वेतभिक्षवः । प्रवदन्निति मात्सर्या - तच्छिद्रं स पुरोऽकरोत् ॥ ११२ ॥ कार्य सुव्रताचार्या नार्यो व्याहरच सः ॥ राजा यः स्याद्यदा सोऽभिगम्यते लिङ्गिभिस्तदा ।। ११३ ।। तपोवनानि हि क्ष्मापरक्ष्याणीति तपस्विनः ॥ भूपालमुपतिष्ठन्ते, लोकस्थितिरियं खलु ॥ ११४ ॥ स्तब्धा यूयं तु मर्यादा विकला मम निन्दकाः ॥ तन्मे राज्ये न युष्माभिः, स्थेयं गन्तव्यमन्यतः ॥ ११५ ॥ स्थाता यस्त्विह वो मध्ये, ध्रुवं वध्यः स मे शठः ॥ संवासयति वः को हि, लोकराजविरोधिनः ।। ११६ ।। सूरिरूचे न नः कल्प इति नोपागता वयम् ॥ तवाभिषेके न पुन - निन्दामः कञ्चिदप्यहो ! ॥ ११७ ॥
१ अन्तःपुरमध्ये ।। २ बकः ॥
अध्य०१८
110611