________________
IME
eve
( D IMLAE
उत्तराध्ययनसूत्रम् ॥६६॥
अध्य०१८ G॥६६॥ ।
सासर
साधयामास लीलया ॥२॥ स्त्रीरत्नवां स प्राप, सकलां चक्रिसम्पदम् ॥ विना तु मदनावल्या, मेने तामपि नीरसाम् ॥३॥ ततः स क्रीडयाऽन्येधु-र्गतस्तं तापसाश्रमम् ॥ सच्चक्रे तापसैश्चारु-फलपुष्पादिदायिभिः ॥८४॥ जनमेजयराजोऽपि, भ्रमंस्तत्रागतस्तदा । ददौ तस्मै निजां पुत्री. मुदितो मदनावलीम् ।।८५॥ ततश्चक्रिरमा पूर्णा, कलयन् स्वपुरं गतः ॥ भून्यस्तमौलिः पितरौ, हृष्टो दृष्टौ ननाम सः॥८६॥ आकर्ण्य कर्णपीयूषं, सूनोवृत्तान्तममृतम् ॥ लक्ष्मी च तादृशीं वीक्ष्य, पितरावत्यहष्यताम् ।।८।। तदा च सुव्रताचार्याः, शिष्याः श्रीसुव्रतार्हतः ॥ विहरन्तः पुरे तत्र, समेत्य समवासरन् ।।८८॥ तांश्च श्रुत्वा नृपो गत्वा, ननाम सपरिच्छदः॥ देशनां चाशृणोन्मोह-हिमापोहरविप्रभाम् ॥८६॥ व्रताय यावदायामि, राज्ये विन्यस्य नन्दनम् ।। तावत्पूज्यैरिह स्थेय-मथेत्यूचे नृपो गुरून् ॥१०॥ विलम्बनीयं नार्थेऽस्मि-निति प्रोक्तोऽथ सूरिभिः ॥ प्रविवेश विशामीश-स्तान्प्रणम्य निजं पुरम् ।।११।। आकार्य मंत्रीसामंत-मुख्यं परिजनं निजम् ।। पुत्रं च विष्णुनामानं, पद्मोत्तरनृपोऽवदत् ॥१२॥ श्रुत्वा श्रीसुव्रताचार्या संसारासारतामहम् ।। मन्ये स्वं वंचितं काल-मियन्तं व्रतमन्तरा ! ।। ६३ ॥ अद्य व तदुपादास्ये, व्रतं श्रीसुव्रतान्तिके। राज्ये तु निदधे विष्णु-कुमारं स्फारविक्रमम् ॥ ६४ ॥ विष्णुर्जगौ विमो ! भोगैः, किं किम्पाकफलोपमैः ? मोधीकर्तुमचं दीक्षा-मादास्येहं त्वया सह ! ॥ १५ ॥ राज्यमादत्स्व वत्सेद-मित्याहूयाथ साग्रहम् ।। पदमं पद्मोत्तरोऽवादी-ततः सोऽप्येवमब्रवीत् ।। ६६ ॥ प्रभविष्णुः प्रभो ! विष्णु-रसौ राज्येऽभिषिच्यताम् ।। श्रयिष्ये युवराजत्व-मस्य शस्यमहं पुनः ! ।।१७।। भूपः प्रोचेयमुक्तोऽपि, राज्यं नादित्सते कृतिन् ! आदित्सते तु प्रव्रज्यां, मया सह महाशयः ! ॥ ३८ ॥ कृतमौनं ततः पद्म, राज्ये न्यस्योत्सवैनृपः ।। सुव्रताचार्यपादान्ते, पाम्राजीद्विष्णुना समम् |॥६६॥ पद्मचक्री ततः सर्वैः, पूज्यमानं जनैः पुरे ॥ रथमभ्रमयज्जैनं, जनन्या जनयन्मुदम् ॥ १०० ॥ चक्रे स्ववंशवज्जैन-शासन
AAYAANAAYeeeeeeeeeeeene