SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ eveee उत्तराध्य यनसूत्रम् अध्य०१८ ॥६ ॥ ॥६ ॥ सरकार क्रीडंस्ताभिः समं नायं, व्यस्मरन्मदनावलीम् ।। भृङ्गो लवंगीभोगेऽपि, किं विस्मरति पचिनीम् ॥६४॥ खेचर्या वेगवत्या स, निशि सुप्तोऽन्यदा हृतः ॥ प्रबुद्धो बद्धमुष्टिस्तां, किं रे ! मां हरसीत्यवक् १ ॥६॥ साप्यूचे शूर ! हरण-कारणं शृणु मा कुपः ! ॥ वैतात्य- पर्वते सूरो-दयं नामास्ति सत्पुरम् ॥ ६६ ॥ तत्र चेन्द्रधनुःसंज्ञो, विद्यते खचरेश्वरः । श्रीकान्ता तद्वधूः पुत्री, जयचन्द्रा तयोः क शुभा ॥६७॥ पुरुषद्वेषिणी साभू-दप्राप्य प्रवरं वरम् ॥ दुःखाकारो हि दक्षाणां, स्त्रीणां हीनः पतिभृशम् ॥६८॥ पटेषु भरतस्थानां, रूपाण्यालिख्य भूभुजाम् ॥ अदर्शयमहं तस्यै, न किमप्यरुचत्परम् ॥६६॥ पटे मयाऽन्यदा रूपं, तवालिख्य प्रदर्शितम् ॥ तस्या-16 श्चित्तमयस्कान्त-मणिर्लाहमिवाकृषत् ! ॥७०॥ चेदयं दयितो न स्यात् , तदाहमनलं श्रये ।। इति प्रत्यशृणोत्साऽथ, मत्वा त्वां खलु दुर्लभम् ! ॥७१।। तस्यास्तस्यां प्रतिज्ञायां, ज्ञापितायां मया रयात् ॥ त्वामानेतुं तत्पितृभ्यां, हृष्टाभ्यां प्रहितास्म्यहम् ।।७२।। तमानये न चेत्तर्हि, वन्हावहनाय याम्यहम् ।।तामाश्वासयितुकन्या-मित्युक्त्वेहागमं ततः॥७३॥ तां पनीनी मोदयितु, नये त्वां च प्रभाकरम् ।। तस्या मम च जीवातु-स्त्वमेवासि प्रसीद तत् ! ॥७४॥ साऽथ तं तदनुज्ञाता, निन्ये सूरोदयं पुरम् ।। विभाते भास्करमिव, तं चेन्द्रधनुराच्र्चयत् ।।७।। विदधे येन धात्राऽसौ, तस्य स्यामनृणा कथम १ ॥ ध्यायन्तीमित्युपायंस्त, जयचन्द्रां ततश्च सः॥७६।। तस्याश्च मातुलसुती, गङ्गाधरमहीधरी ।। विद्याधरौ महाविद्यौ, तद्विवाहाभिलाषिणी ॥७७॥ पदमेन परिणीतां तां, निशम्य समरोद्यतौ ।। सुरोदयपुरे सर्वा-ऽभिसारेण समीयतुः ॥७॥ [ युग्मम ] पुरान्निर्गत्य पदूमोऽपि, विद्याधरचमूवृतः ॥ तत्सैन्येन समं योद्ध, प्रावर्त्तत महाभुजः ॥७६॥ रथी सादी निषादी वा, पदातिर्वा न कोऽपि हि ॥ पदूमस्य युध्यमानस्य, पुरः स्थातुमभूत्प्रभुः ॥८॥ नैऋतेनानिलेनाब्दमिव पमेन सर्वतः॥ स्वसैन्यं वीक्ष्य विक्षिप्तं, खेचरौ तौ प्रणेशतः॥१॥ तत उत्पन्नचक्रादि-रत्नो ज्वालाङ्गजो बली ॥ षट्खण्डं भरतक्षेत्र, cereveereevee VEVE EVEVEYECAY
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy