________________
ध्य०१८ ॥६६॥
उत्तराध्य- यौवराज्यमपालयत ॥ ज्वालादेव्याऽथ तन्मात्रा-कारि जैनरथोऽन्यदा ॥ ३०॥ मिथ्यादृष्टिस्तत्सपत्नी, लक्ष्मीब्र बरथं, तदा ॥ यनसूत्रम् विधाप्योचे नृपं ब्रह्म-स्थः प्राग्भ्रम्यतां पुरे ॥३१॥ ततो ज्वालाऽलपद्भपं, न चेज्जैनरथोऽग्रतः ॥ पुरे भ्रमिष्यति तदा, करिष्येऽनशनं. MO ध्र वम् ॥ ३२ ॥ द्वयोरपि स्यन्दनयोात्रां राजाऽरुणततः ॥ मातुर्दुःखेन तेनाथ, पमोऽभूद्भशमातुरः ! ॥ ३३ ॥ दध्यौ चेति ॥
स्पृहा मातुः, मादृशेऽपि सुते सति ॥ व्यलीयत मनस्येव, कदर्यश्रीरिवावनौ ! ॥ ३४ ॥ सुपुत्रत्वाभिमानं हि, कथंकारं करोतु सः ॥ शक्तोऽपि यः पूरयति, न मातुः सन्मनोरथान् ! ॥ ३५ ॥ कृतः पित्रापि मन्मातु-विशेषः कोऽपि न हो ! ॥ तन्मानिनो न मे मानं, विनेहाऽवस्थितिः शुभा ! ॥३६ ॥ ध्यात्वेति सुप्ते लोके सः, निर्गत्य स्वपुरान्निशि ॥ भ्रमन् स्वैरमरण्यान्त-स्तापसाश्रममासदत् ॥ ३७॥ वल्लभाम्यागतैस्तत्र, तापसैः कृतसत्कृतिः ॥ सुखं प्रववृते स्थातु, महापद्मः स्वसद्मवत् ॥ ३८॥
इतश्चाजनि चम्पायां, भूजानिर्जनमेजयः॥ स च कालेन राज्ञाऽऽजौं, पराभूतः पलायत ! ॥ ३९ ॥ ततः पुरे भज्यमाने, नेशुर्लोका दिशोदिशम् ॥ अन्तःपुरमहेलाश्चा-ऽन्तरा त्रातारमातुराः! ॥ ४० ॥ तदा चम्पापतेः पत्नी, नष्टा नागवती द्रुतम् ॥ स्वपुत्र्या मदनावल्या, सममागात्तमाश्रमम् ॥ ४१ ॥ तदा च पद्ममदना-वल्योरन्योन्यदर्शनात् ॥ क्षणादाविरभूद्रागो, 'मन्दाक्षं मन्दतां नयन् ! ॥ ४२ ॥ तद्विज्ञाय जगौ नाग-वतीति मदनावलीम् ॥ पुरुषे यत्रतत्रापि, सुते ! किमनुरज्यसे? ॥ ४३ ॥ भाविनी चक्रिणो मुख्य-पत्नी त्वमिति भाषितम् ॥ ज्ञानिनो विस्मृतं किं ते ?, यद्भवस्येवमुत्सुका !॥४४॥ मिथो रक्ताविमौ काष्टी, विप्लवं मेति चिन्तयन् ।। स्थानं यथेष्टं याहीति, पदम कुलपति गौ ॥ ४५ ॥ तदाकर्ण्य ततः पदमो, निर्ययौ विमना मनाक् ॥ अभीष्टानां वियोगो हि, |
१ लज्जाम् । २ उपद्रवम् ।।
EMARA
VEGEE Veeree
-