________________
अध्य०१८
उत्तराध्यपनसूत्रम्
AVEGVEGETEVEGEVEEVE Evere
मुनीन् । क्षुद्रोऽयमिति विज्ञाय, ते तु तूष्णीकतां दधुः ।१२। ततः स शासनं जैन, निन्दन्नुद्दिश्य सद्गुरून् । गौरयं किमु वेत्तीति, व्यबवीत्सचिवब्रुवः ।१३। मुखं कण्डूयते ते चेत् , तत्किंचिद्रू महे वयम् । अथेति गुरुभिः प्रोक्ते, तानेकः क्षुल्लको जगौ । १४ । अनेन सह धृष्टेन, वक्तु' युक्तं न वः स्वयम् ॥ विजेष्ये बहमेवामु, स्वपदं तद्वदत्वयम् ॥१५॥ क्रुद्धः सोऽथावदद्वेद-बाह्याः शौचविवर्जिताः ॥ देशे वासयितु नाही, यूयं पक्षोऽयमस्तु मे ॥१६॥ प्रत्यूचे क्षुल्लको वारिकुम्भश्चुल्ली प्रमार्जनी ॥ कण्डणी पेपणीत्युक्ताः, पञ्च 'शूनाः श्रति
बहो! ॥१७॥ ये हि शूना भजन्त्येता, वेदबाह्याः त एव हि ।। तद्वर्जितानामस्माकं, तत्कथं वेदबाह्यता ? ॥१८॥ अशौचं तु रतं तस्य, | सेवकश्चाशुचिर्मतः ॥ सुरताद्विरतास्तस्मा-त्कस्मादशुचयो वयम् ॥१६॥ निरुत्तरीकृत इति, क्षुल्लकेन स धीसखः ॥ वैरं महद्वहन् साधुष्वगाद्गेहं नृपान्वितः ॥ २० ॥ निशायां च मुनीन् हन्तु, क्रोधान्धः स वने गतः ॥ धावनिहन्तुमस्तम्भि, देव्या निर्ग्रन्थभक्तया ॥ २१ ॥ प्रातश्च तं तथा प्रेक्ष्य, विस्मिता नागरा नराः ॥ नृपश्च धर्म मूरिभ्यो, निशम्योपशमं ययुः ॥ २२ ॥ निन्द्यमानो जनैः सबै-विलक्षो नमुचिस्ततः ॥ देव्या मुक्तो ययौ लज्जा-विहस्तो हस्तिनापुरम् ॥२३॥ सोऽथ तत्र महापद्म-युवराजेन सङ्गतः ॥ तदमात्यपदं प्राप, पापोऽपि पाच्यपुण्यतः! ॥२४॥ इतश्चासीत्प्रान्तवासी, दुर्गमं दुर्गमाश्रितः ॥ नृपः सिंहबलः सिंहः, इव प्रबलविक्रमः ॥ २५ ॥ स च प्रदायावस्कन्दं, पद्मदेशे मुहुमुहुः ॥ स्वदुर्ग प्राविशत्तं च, ग्रहीतु कोऽपि नाशकत् ॥२६॥ धत्तु सिंहबलं जाना-स्युपायं कंचिदित्यथ । पृष्टो रुप्टेन पदमेन, वेबीति नमुचिजगौ ॥२७॥ ततो मुदा महापद्मे-नादिष्टः स गतो द्रुतम् ॥ भक्त्वा दुर्ग सिंहबलं, बलाद्वद्धवा समाययौ ॥२८॥ ततो वरं वृणीष्वेति, प्रोक्तः पदमेन संमदात् ॥ ऊचे नमुचिरादास्ये, काले वरममुं विभो ॥२६॥तत्प्रपद्य चिरं पद्मो,
१ प्राणिवधस्थानानि । “पञ्च शूना गृहस्थस्य, चूल्ली पेषण्युपस्कारः । कण्डनी चोदकुम्भश्च, बध्यते यास्तु वाहयन् ॥" [मनुः] २ कामम् ॥