________________
उत्तराध्ययनसूत्रम्
॥६१॥
Ceveeeeeeeee-NEGNEAYEEYEGeeveeYEEYE
विहत्य भुवि संमेत-पर्वतं भगवानगात् ।। ४६३ ॥ तत्र चानशनं सार्द्ध, साधूनां नवभिः शतैः ॥ प्रभुः प्रपद्य मासेन, सिद्धिसोधमभूषयत् ॥ ४६४ ॥ कौमारे मण्डलीत्वे च, चक्रित्वे संयमेऽपि च ॥ लक्षतुर्याश इत्यब्द-लक्षायुरभवद्विभोः ॥ ४६५ ॥ शान्तत्रिलोकवृजि| नस्य जिनस्य शान्ते-चक्रे विमुक्तिमहिमाथ सुरासुरेशैः ॥ चक्रायुधोऽपि भगवान् वृतकेवलश्री-भैजेऽन्यदा प्रियतमां शुभसिद्धिलक्ष्मीम् ||३|| | ॥ ४६६ ॥ इति शान्तिनाथ-चरितलेशः ॥ ३८॥"
मूलम्-इक्खागरायवसभो, कुन्थू नाम नराहिवो । विक्खायकित्ती भयवं, पत्तो गइमणुत्तरं ॥ ३६॥. 4 . व्याख्या स्पष्टं, कथालेशस्त्वेवम् -
अत्रैव जम्बूद्वीपे प्राग-विदेहेषु पुराऽभवत् । आवर्तविजये खनि-पुर्या सिंहावहो नृपः ॥१॥ सोऽन्यदा व्रतमादत्त, संवराचार्यसन्निधौ । जिनसेवादिभिः स्थानः, तीर्थकृत्कर्म चार्जयत् ॥ २॥ चिरं पवित्रं चारित्रं, प्रपाल्यानशनं श्रितः॥ आयुःक्षयेण सर्वार्थ-सिधे सोऽभूत्सुधाशनः ॥३॥ इतश्चात्रैव भरते, पुरे श्रीहस्तिनापुरे ॥ भूपो बभूव सूरातः,, श्रीसंज्ञा तस्य च प्रिया ॥४॥ सिंहावहस्य जीवोऽथ, च्युत्वा सर्वार्थसिद्धतः॥ कुक्षौ चतुर्दशस्वप्ना-ऽऽवेदितोऽवातरत् श्रियः ॥५॥ क्रमाच साऽसूत सुतं, छागांक काश्चनच्छविम् ॥ दिक्कुमार्यों व्यधुस्तस्य, सूतिकर्म तदाऽऽगताः ॥६॥ जन्माभिषेक मेरौ च, तस्येन्द्राः चक्रिरेऽखिलाः ॥ तुष्टोऽन्वतिष्ठद्भपोऽपि, पुत्रजन्ममहामहः ॥७॥ गर्भस्थेऽस्मिन् कुन्थुभावं, भेजिरे निखिला द्विषः ॥ स्वप्ने च जननी कुस्थं, रत्नस्तूपं ददर्श यत् ॥८॥
तत्कुन्थुरिति तस्याख्या-मुत्सवैर्निममे नृपः ॥ विश्वोत्तरगुणाधारः, क्रमात्स ववृधे विभुः॥६॥ यौवने राजकन्या राट् , समं तेनोदवायत् ॥ A तस्मै वितीर्य राज्यं चा-ऽन्यदा पर्यव्रजस्वयम् ॥१०॥श्रीकुन्थुस्वामिनःप्राज्यं, राज्यं पालयतस्ततः ।। चक्रमायुधशालाया-मन्येयुरुदपद्यत
ܒܬܒܬgܒܝܫܝܬܡܸܣܡܸܬܼܒܒܸܒܒܼܵܒܕܒܕܒܕܦܝܕܦ