________________
उत्तराध्य.
eve
अध्य०१८
यनसूत्रम्
EVEGEVEEVEE VEE Veevee ELEVERDE
तुभ्यं नमोऽस्त्विति वद-बीशानेन्द्रोऽनमन्मुदा ॥४०५॥ त्वयाऽपि विश्ववन्धन, कोऽसौ स्वामिन्नमस्कृतः॥ महिषीभिस्तदा चवं, पृष्टः स हरिरित्यवक् ॥४०६ ॥ नगयां पुण्डरीकिण्यां, श्रीमेघरथपार्थिवम् ॥ प्रतिमास्थं भाविजिनं, वीक्ष्य भक्त्याहमानमम् ॥ ४०७॥ ध्यानस्थितं महासत्त्व-म, मेरुमिव स्थिरम् ॥ शक्तावालयितुं नैव, सेन्द्रा अपि सुरासुराः ॥ ४०८ ॥ तन्महिष्यौ सुरूपाति-रूपे तां तस्य वर्णनाम् ।। असहिष्णू तदा तत्रा-ऽऽगातां तत्वोभहेतवे ॥४०॥ ॥ कामपादपकुल्याभाः, कामिनीस्ते विचक्रतुः ।। अनुकूलोपसगांस्ता, इति पारेभिरे ततः॥४१० ॥ कटाक्षविशिखः काचि-दक्षा लक्षीचकार तम् ॥ काऽपि भ्रविभ्रमान सुभ्र--विदधे पिदधे त्रपाम् ॥ ४११ ।। पीनस्तनी स्तनौ शात-कुम्भकुम्भाविवोन्नतौ ॥ कापि प्राकाशयत्केश-पाशोद्वन्धनकैतवात् ।। ४१२॥ त्रिवलीललितं मध्यं, सुमध्या काप्य| दर्शयत् ।। कापि वापिसनाभिं च, नाभिं प्राकटयन्मुहुः ॥४१३ । अस्मिन्नखपदे काञ्ची-दाम मां बहु बाधते ॥ माययेति महारोहा-रोहं। कापि स्फुटं व्यधात् ।। ४१४ ॥ हले ! ऽलिना किं दष्टाह-मिहेति व्यपदेशतः ।। उत्क्षिप्य कापि संव्यान-मूर्वोमू लमदीदृशत् ॥४१॥
शृङ्गारशाखिपुष्पाभं, काचिदस्मेरयत् स्मितम् ।। काचिज्जगौ च गीतानि, विकारांकुरवारिदान् ॥ ४१६ ।। कथामकथयत कापि, प्रिययोगवि| योगयोः ।। स्वानुभूता रतक्रीडा, वर्णिनी काप्यवर्णयत् ॥ ४१७ । देहि प्रियं वचः सौम्यदृष्टया वीक्षस्त्र नः प्रभो ! ।। कण्ठे निधेहि च भुजौ, तमित्यूचुश्च काश्चन ।। ४१८ ॥ क्षोभायेति कृतास्ताभिः, कुचेष्टा निखिलां निशाम् ।। प्रत्युतादीपयत् ध्यानं, तस्याऽऽप इव वाडवम् ॥४१६॥ मेरौ वात्या इवोर्वीशे, मोघास्ता विकृताः स्त्रियः ।। ततः संहत्य ते देव्यौ, नत्वा तं दिवमीयतुः॥४२०॥ निशावृत्तेन तेनाथ, पृथ्वीनाथो विरक्तधीः ।। प्रतिमां पारयित्वागा-स्वधामा प्रतिमक्षमः ।। ४२१ ॥ तत्राथ समवासापी-ज्जिनो घनरथोऽन्यदा ।। तं चायातं निशम्यागा-सानुजो वन्दितुं नृपः ॥४२२॥ वैराग्यमातरं श्रुत्वा, देशनां स गृहं गतः ।। राज्यमेतद्ग्रहाणेति, राजाऽवरजमब्रवीत् ॥४२३॥
NUMANBINDNEVZEYVESNA NEVEN