________________
एचराध्य
अध्य०१८ ॥५४॥
पनपत्रम्
॥५४॥
चकैर्वदन ॥ तमन्वगादथ श्येनो, गरुत्मानिव भोगिनम् ॥३७१ ॥ नृपोऽथेत्यब्रवीदेनं, श्येन ! दास्ये न ते श्रितम् ॥प्राणान्तेऽपि हि रक्षन्ति, क्षत्रियाः शरणागतम् ॥३७२॥ अन्यच्च युज्यते नैव, भवतोऽपि विवेकिनः ।। अपहत्य परप्राणा-नेवं स्वप्राणपोषणम् ॥३७३॥ 19 स्वजीवितं यथेष्टं ते, तथान्यस्यापि तत्प्रियम् ॥ तद्रक्षसि यथात्मानं, तथान्यमपि रक्ष भोः। ॥३७४ ॥ भुक्तेनाप्यमुना भावि, सौहित्य' क्षणमेव ते ॥ सर्वस्याप्यायुषो नाशो, भविताऽस्य तु पक्षिणः ॥ ३७५ ।। आहारेणापरेणापि, चुद्व्यथा क्षीयते क्षणात् ॥ प्राणिहिंसोत्थनरक-व्यथा तु न चिरादपि ॥ ३७६ ॥ तद्विमुञ्च प्राणिहिसा, धर्ममाश्रय सन्मते ! अत्रामुत्र च येन त्वं, लभसे सुखमुत्तमम् ॥ ३७७ ॥ | ततो नरेश्वरं श्येनः, प्रोचे मनुजभाषया ॥ मत्तो भीतः कपोतोऽयं, प्रभो ! त्वां शरणं श्रितः ॥ ३७८ ॥ चुत्पीडापीडितोऽहं तु, बेहि कं शरणं श्रये ? ॥ तदेनं रक्षसि यथा, तथा त्वं रक्ष मामपि ! ॥३७६॥ धर्माधर्मविचारोऽपि, सति स्वास्थ्येऽङ्गिनां भवेत् ।। बुभुक्षितो हि । किं पापं, न करोतीति न श्रुतम् ? ॥ ३८० ॥ न चान्यैरपि भौज्यै, तुष्टिर्भवति भूपते ! ॥ सद्यो हतप्राणिपला-स्वादनैकरतो ह्यहम् । ॥ ३८१ ॥ क्षुधया म्रियमाणस्य, तदेनं देव ! देहि मे ॥ सर्वेष्वपि महात्मानो, भवन्ति हि कृपालवः ॥ ३८२ ॥ राजाऽथ श्येनमित्यूचे, कपोतप्रमितं तव ॥ ददे स्वमांसमुत्कृत्य, मा म्रियेथा मुधा क्षुधा ॥ ३८३ ।। ओमित्युक्ते तेन पारा-पतं नृपतिरेकतः॥ तुलायां न्यास्थदुत्कृत्यो-स्कृत्य स्वामिषमन्यतः॥३८॥ चिक्षेप स्वपलं भृपः, छेदं छेदं यथा यथा ॥ कपोतपोतो ववृधे, वीवधेन' तथा तथा ॥३८॥ ततस्तुलामिलापालो'-ऽध्यास्त शस्तमतिः स्वयम् । तदा च मंत्रिमुख्यास्तं, सगद्गदमदोऽवदत् ॥ ३८६ ॥ रक्षणीयाऽमुनांगेन, महीश ! निखिला मही ॥ पक्षिणो रक्षणायास्य, तद्विभो ! किं जहासि ? हा ! ॥३८७ ॥ किञ्चेयान् वीवधो नैवा-एडजे सम्भवति क्वचित् ॥ |
१ तृप्तिः । २ भारेण । ३ राजा।
G GEGEVEEVEEVEEAVAZALA